SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ७६० भाव-विशेषयोरवक्तव्यत्वप्रतिपादनम्] द्वादशारं नयचक्रम् भिन्नव्यवस्थानलक्षणवृत्तोभयत्वानभ्युपगमे तु सर्वात्मकैकभाव एवात्यन्ताभाव एव वोभयत्वं स्यात् । अनुभयत्वप्रतिषेधादुभयत्वमिति चेत्, न, अन्यत्वावक्तव्यत्वात् । अन्यत्वप्रतिषेध एकत्वमिति चेत्, न, तस्याप्यवक्तव्यत्वात् । एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानोपसर्जनभावोऽपि प्रतिषिद्ध एव । तस्मात् सर्वथैवावक्तव्यतैव । द्रव्य-गुण-कारण-5 कार्यादिष्वप्येवमेव । ____ अतोऽन्यथोक्तौ वस्तुविसंवादः, अन्यस्यानन्यत्वेन एकस्यानेकत्वेन उभयस्यानुभयत्वेनावधारणात्, घटपटविपर्ययावधृतिवत् । अयं च नियमो 'नियम एव वस्तु' इतीच्छति, सामान्यविशेषकत्वान्यत्वकान्तायतस्ववृत्तरेव निश्चितनियताधिक्ययमनात् ।। - 10 एवोभयत्वं स्यात्, अत्यन्ताभावे खेपुष्प एव वा, गत्यन्तराभावात्। तच्चानिष्टं सर्वात्मकैकमावो. भयत्वमत्यन्ताभावोभयत्वं वा। अनुभयत्वप्रतिषेधादित्यादिः पूर्ववत् तुल्यगमो ग्रन्थो यावत् सर्वथैवावक्तव्यतैवेति दृष्टा न्ताग्नीन्धनोपसंहारवद् दार्टान्तिकभावविशेषोपसंहारेण गतार्थः । एवमापाद्यावक्तव्यतां सामान्यविशेषयोरतिदिशति-द्रव्य-गुण-कारण-कार्यादिष्वपि एवमेवे- 15 ति । एवं हि भवति भवनमग्नीन्धनवत्' इत्युपक्रम्य स एव दृष्टान्तग्रन्थो यावत् 'सर्वथाप्यवक्तव्यतव' इति । तस्योपरि योकत्वं गुणस्य द्रव्येण सह नान्यतेत्यादि द्रव्य-गुणयोः परस्परेण सहकत्वान्यत्वानुभयत्वोभयत्वप्रधानोपसर्जनत्वप्रतिषेधेन 'सर्वथैव अवक्तव्यता' इत्युपसंहारो यावत् . तावदशेषो ग्रन्थो योज्यः । तथा कारण-कार्ययोरपि पुनः सैव ग्रन्थयोजना । आदिग्रहणात् सर्वगताऽसर्वगत-नित्या-ऽनित्या-ऽवस्था-ऽवस्थावद्-भोज्य-भोक्त्रादिविकल्पेषु समानः प्रचर्च इति स्थितमवचनीयं 20 वस्त्विति । अतोऽन्यथोक्तौ वस्तुवि]संवाद इति प्रतिज्ञा। अन्यस्यानन्यत्वेनेत्यादि यावदवधारणादिति हेतुः। घट-पटविपर्ययावधतिवदिति दृष्टान्तः । यथा घंटे 'पटः' इत्यवधार्यमाणे पटे च 'घटः' ४९३-१ इत्यवधार्यमाणे विसंवादः एवमन्यत्वमनन्यत्वेनेत्यादि योज्यम्, एकत्वा-ऽन्यत्वोमयत्वा-ऽनुभयस्वाऽन्यतरप्रधानोपसर्जनत्वरवधार्यमाणं वस्तु विसंवदते परस्परति] इति वैस्तु व्याख्यातम्। 25 नयस्वरूपमुच्यते-अयं च नियमः विधि-नियमसर्वभङ्गसमूहसम्यक्त्वप्रतिपादनाधिकारे प्रत्येक१ पृ० ७५२ पं० ३ ॥ २ सप्तम्यन्तं पदम् ॥ ३ पृ० ७५२ पं० ५॥ ४ °त्यादि य० ॥ ५ पृ० ७४४ पं०१॥ ६ दृष्टान्तो य०॥ ७पृ०७५३ पं०१॥ ८ न्यथोक्तो प्र०॥ ९ ववृत्तिव प्र०॥ १० घट प्र०॥ ११ वस्तुव्याख्यानं प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy