Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
ॐ अर्ह
सद्गुरुभ्यो नमः
अथ द्वादशो नियमानयमारः। अन्ते क्षयाद् यद्येवं ततो वस्तुवत् प्रसिद्धयभ्युपगमः कृतो भवति । वस्तुव्यवस्थासिखघुपहितनियमानतिक्रमाद् निष्ठितं तहि तत्, अन्तवत्वात्, घटादिवस्तुवत् । निष्ठितत्वात् कृतकत्वादारब्धमपि । एवं ते पूर्वनिर्वृत्तवस्तुनिबन्धनाः, क्रियात्वात्, अन्तवत् ।
पूर्वनयमतापरितोषकारणमुत्तरनयोत्थानम्, उत्तरोत्तरसूक्ष्मेक्षिकया च पूर्वस्य दोषदर्शनात् 5 स्वमतौंस्थित्याभिमानाच्चारम्भ इत्यत आह-अन्ते क्षयाद् यद्येवम् यदि त्वयान्ते क्षयदर्शनात् स्वैरसेनैव वस्तुनः क्षय एवादावप्यनुमीयते, ततः किम् ? ततो वस्तुवत् प्रसिद्धचभ्युपगमः कृतो भवति, वस्तुनीव वस्तुवत्, यथा वस्तुनः प्रसिद्धस्य लोके स्थितस्य घटादेः क्षयो भवतीति प्रसिद्धिस्तथा त्वयाभ्युपगतमिति प्राप्तम्, विनाशस्योत्पादस्य च प्रसिद्धवस्तुविषयत्वात् । इतरथा खरविषाण-५१९. स्येव स्थित्यभावे विनाशोत्पादयोरप्यभावः प्रतिसन्धानाभावात्, स्थितस्य भवत एव हि भवनमितीत्थ-10 मभ्युपगमस्ते। ___ तस्माद् वस्तुव्यवस्थासिद्धघुपहिनियमानतिक्रमात् इत्यस्माद्धेतोर्भवत एवोत्पाद-विनाशप्रतिसन्धानाद् व्यवस्थितं वस्तु सिद्धं नियतमुत्पाद-विनाशव्यपदेशभाग् भवतीत्येतं नियम नातिकामति खपुष्पादिवलक्षण्येनोपहितम्, अतो वस्तुव्यवस्थासिद्धयुपहितनियमानतिक्रमाद् निश्चयेन स्थितं निष्ठितं व्यवस्थितमिति गृहाण त्वद्वचनादेवेत्यतश्चाह-निष्ठितं तर्हि तत्, अन्तवत्त्वात्, घटादि-15 वस्तुवदिति दृष्टान्तः, यथा मृत्पिण्डाद्यवस्थानामन्ते घटोऽस्त्येव अवस्थित एवान्तव[त्त्वा]त् तथा मृल्लोष्टाद्यवस्थास्वपि। निष्ठितत्वात्, कृतं तद् वस्तु घटादिवस्तुवदेव । ततश्च कृतकत्वादारब्धमपि घटादिवस्तुवदेवेति हेतुहेतुमद्भावेनाऽरम्भ-क्रिया-निष्ठाः साधिताः उपसंहृत्यैकत्वेनाह-एवं त इत्यादि । आरम्भ-क्रिया-निष्ठाः पूर्वनिर्वृत्तवस्तुनिबन्धनाः, "क्रियात्वात्, अन्तवत्, अन्ते इवान्तवत्, यथा अन्ते निवृत्तिकाले क्रिया भवनं जन्म आत्मलाभः सा पूर्वनिर्वृत्तवस्तुनिबन्धना तथा प्रारम्भादि-20 क्रियाः।
१'त्याहिमाना प्र० ।। २ स्वरसोनव प्र० ॥ ३ प्रसिद्धधुपगमः य० ॥ ४ भवतीत्येतन्नियम नाति भा० । भवतीत्येतनियमनाति य०॥ ५ साविताः प्र०॥ ६ उपसंपत्यकत्येनाह भा०॥ उपसंहात्यकन्येनाह य० ॥ (उपसंहृत्यकध्येनाह?) ॥ ७ कियादत्वात् प्र० । (क्रियावत्त्वात् ? ) ॥ ८ पूर्वनिवृत्त भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252