Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 358
________________ चन्द्रप्रमस्वामि द्वितीय: परिच्छेदः चरित्रम् ॥३५॥ अभावनायां वरुणकथा। न भवत्यमुना किश्चिदिति यः परैरहम् । उपहस्ये सदाप्येवं, ततोऽभूवं सुदु:खितः ॥ २५ ॥ अनेन मन्त्रिणा चाद्य, पृष्टा देवाः परे न यत । आख्यंस्तन्मम देवेन, है पुण्यावसरो ददे ॥ २६ ॥ पयश्छटाऽपि मेऽङ्गेषु, नालगत् प्राकदापि हि । केवलं धूलिविष्टाभिलिप्सत्वात्ताडयते वपुः ।। २७ ॥ अधुना त्वेष मन्त्री मे, स्वपकः पूजकोऽभवत् । तदस्मै कथयाम्येनं, राजस्वप्नं यथास्थितम् ॥ २८॥ इति सोऽवधिना ज्ञात्वाचख्यौ स्वप्नं तु मन्त्रिणे । मन्त्र्याख्यद्भभुजे गत्वा, हर्षाद्राजाप्यमन्यत ।। २8 ।। स्वर्णलक्षां ददौ तोषाद्राजा तस्मै सुमन्त्रिणे । सोऽप्यादाय वैवधिकैरागच्छनित्यचिन्तयत् ॥३०॥ मयाऽस्त्यद्धं हि यक्षस्य, मानितं तहदे यदि । तत्कुटुम्बव्ययानन्तमृणं कस्माद्ददाम्यहम् १ ॥ ३१ ॥ किं करिष्यति यक्षश्च १, स्वर्णेनाद्य फलं तु मे । यक्षः क्रोत्स्यति चेत्तत्कि, कर्ता कार्य न यत्पुनः ।। ३२॥ इति ध्यात्वा ततो मन्त्री, ययौ वेश्म निजं मुदा । स्वेच्छया स व्ययत्यर्थ, सांसारिकसुखेच्छया ॥ ३३ ॥ आगादीपोत्सवो भूयो, नृपोऽशेत तथैव सः । स्वप्नं ददर्श तत्रैष, विसस्मार तथैव च ॥ ३४ ॥ भूयः पप्रच्छ राजा तं, मन्त्रिणं प्रत्ययात्ततः । मन्याह कथयिष्यामि, सम्यग ज्ञात्वा यथातथम् ॥ ३५ ॥ प्रतिज्ञायेति मन्त्र्येष, गेहं गत्वा व्यचिन्तयत् । प्रष्टव्यः स कथं यक्षो ?, दत्तमद्धे पुरा न यत् ।। ३६॥ ततोऽन्तः किमपि ध्यात्वा, स दुग्धेअरसादिकम् । पुष्पादिपूजाप्रकर, लात्वा यक्षगृहं ययौ ॥३७॥ जलैः प्रक्षाल्य तन्मृत्ति, दुग्धेनानपयत्ततः । विलिप्य घुसणेनाथार्चयित्वा कुसुमैर्वरैः॥ ३८ ॥ ॥३५॥

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404