Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीया परिच्छेदः
॥३६॥
ग्रन्थकत्तुः प्रशस्तिः ।
ग्रन्थकत्तु: प्रशस्तिः । नागेन्द्रगच्छे विख्याताः, परमारान्वयोत्तमाः। श्रीवईमाननामानः, सूरयोऽस्तारयोऽभ॥१॥ गुणग्रामाभिरामोऽथ, रामसूरिर्बभूव सः। यदाऽऽस्यकमलक्रोडे, चिक्रीडुर्वचनश्रियः ॥ २ ॥ सिद्धान्तादित्यमाश्रित्य, कलापूर्णः सुवृत्तभाक् । चन्द्रवत्प्रीतिदः सोऽभुञ्चन्द्रसूरिंस्ततः परम् ॥ ३॥ विद्यावल्लीमहावृक्षः, संयमप्रतिमारथः । संसाराब्धिसदायानं, देवसूरिगुरुस्ततः ॥ ४ ॥ सिद्धविद्यारसस्पर्शात , सुवर्णत्वमुपागतम् । शिवायाभयसूरीणां, वचस्तारमुपास्महे ॥ ५॥ निर्वास्यान्यगिरश्चित्तान्यवष्टभ्य स्थिता नृणाम् । यद्वाक सोऽभूज्जगत्ख्यातः, श्रीमद्धनेश्वरः प्रभुः ॥ ६ ॥ यद्वाग्गङ्गा त्रिनिर्मागस्तर्कसाहित्यलक्षणैः। पुनाति जीयादिजयसिंहसूरिः स भूतले ॥७॥ श्रीधनेशपदे सूरिदेवेन्द्राख्यः स्वभक्तितः । पुण्याय चरितं चक्रे, श्रीमञ्चन्द्रप्रभप्रभोः॥८॥ व्योमस्थालतलस्थितिः प्रतिदिशं विक्षिप्य तारोदनं, पीत्वा चन्द्रमहःपयो दधदवष्टम्भं च धान्यां करै। बालार्कः पतदिन्दुकन्दुकममावास्यासु धृत्वा क्षिपेद्यावत्तावदिदं चरित्रमवनौ चान्द्रप्रभ नन्दतात् ॥६॥ चतुःषधेि कसङ्घय च, "१२६४" जाते विक्रमवत्सरे । सोमेश्वरपुरेऽत्रैतद्विमास्यां चरितं कृतम् ॥१०॥
॥२१६१ ॥ सर्वसङ्ख्था ५३२५ ॥ ॥ श्रीचन्द्रप्रभस्वामिचरितं समाप्तम् ॥
जा विभिन्यवष्टभ्यतम् I
K
॥३६॥

Page Navigation
1 ... 401 402 403 404