Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 400
________________ द्वितीयः परिच्छेदा न्द्रिप्रभवामि बरित्रम् . ३६२॥ | स्वामिनिर्वाणम्। सुरासुरनरेन्द्राणां, यत्सुखं भुवनत्रये । स स्यादनन्तभागोऽपि, न मोक्षसुखसम्पदः॥ ४६॥ स्वस्वभावजमत्यक्षं, यदस्मिन् शाश्वतं सुखम् । चतुर्वर्गाग्रणीत्वेन, तेन मोचः प्रकीर्तितः ॥ ५० ॥ [ मोक्षतत्त्वम् ] ___ इति चन्द्रप्रभासाख्ये, स्थितः क्षेत्रे जिनेश्वरः । चन्द्रप्रभप्रभुधर्म, चख्यौ द्वादशपर्षदम् ॥ ५१ ॥ ततोऽन्यत्रापरान् जीवान् , प्रबोधयितुमात्मना । स्वामी चचाल तत्स्थानावृतो नरसुरासुरैः ।। ५२ ॥ सर्वातिशयसम्पूर्णः, सर्वदेवपरिष्कृतः। विजहार जिनोऽन्यत्र, भुवि व्योम्नीव चन्द्रमाः॥१॥ सार्द्धा द्विलक्षी साधूना, साध्वी लक्षत्रयी पुनः। सहस्राशीतिसहिता, द्वे सहस्र तु पूर्विणाम् ॥ २॥ शताशीतिः सावधीनां, मनःपर्ययिणां च सा । तथा दशसहस्राणि, केवलज्ञानधारिणाम् ॥ ३ ॥ जातवै क्रियलब्धीनां सहस्राणि चतुर्दश । वादलब्धिमतां सप्तसहस्त्री षट्शतानि च ॥४॥ साढ़े लक्षे श्रावकाणां, श्राविका लक्षपञ्चकम् । सहस्रनवतिन्युनं, परिवारोऽभवत् प्रभोः ॥ ५ ॥ पूर्वलक्षं त्रिमासोनं, चतुर्विश्यङ्गवर्जितम् । विहृत्य केवलात् स्वामी, ययौ सम्मेतपर्वतम् ॥ ६ ॥ ज्ञात्वा स्वं मोक्षकालं च, सहस्रमुनिसंयुतः । प्रपेदेऽनशनं स्वामी, मासं चास्थात्तथास्थितिः ॥ ७ अवधिज्ञानतो ज्ञात्वाऽऽसनकम्पेन तत्क्षणात् । इन्द्रा जिनेन्द्रमभ्येयुश्चतुःषष्टिरपि द्रुतम् ॥ ८॥ तत्र प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । विषण्णाश्च निषण्णाश्च, तस्थुरालिखिता इव ॥६॥ नभस्यकृष्णसप्तम्यां, श्रवणस्थे निशाकरे । चन्द्रप्रभः प्रभुस्तस्थौ, ध्याननिष्कम्पमानसः ॥१०॥ ||३६२॥

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404