Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥३६॥
गुणशिक्षाव्रतानि सप्ततत्त्वानि च।
सचित्तः संवृतः शीतस्तदन्यो मिश्रितोऽपि च । विमेदैरान्तभिन्नो नवधा योनिरङ्गिनाम् ॥२१॥ प्रत्येकं सप्तलक्षाणि, पृथ्वीवार्यग्निवायुषु । प्रत्येकानन्तकायेषु, क्रमादश चतुर्दश ॥२२॥ षट् पुनर्विकलाक्षेषु, मनुष्येषु चतुर्दश । स्युश्चतस्रश्चतस्रश्च, श्वभ्रतियकसुरेषु च ॥ २३॥ एवं लक्षाणि योनीनामशीतिश्चतुरुत्तरा । प्रोक्तानि ज्ञानदृश्यानि, सर्वेषामेव जन्मिनाम् ॥ २४॥ एकाक्षा बादराः सूक्ष्मा, पञ्चाक्षाः संश्यसंज्ञिनः । स्युर्द्वित्रिचतुरक्षाश्च, पर्याप्ता इतरेऽपि च ॥ २५॥ एतानि जीवस्थानानि, मयोक्तानि चतुर्दश । सम्यग विज्ञाय पुण्याय, तद्रवां कुरुत स्फुटम् ॥२६॥[जीवतत्त्वम् ]
अजीवाः स्युधर्माधर्मविहायःकालपुद्गलाः । जीवेन सह पश्चापि, द्रव्याण्येते निवेदिताः ॥२७॥ तत्र कालं विना सर्वे, प्रदेशप्रचयात्मकाः । विना जीवमचिद्रूपा, अकर्तारश्च ते मताः ॥ २८॥ कालं विनाऽस्तिकायाः स्युरमृर्ताः पुद्गलं विना । उत्पादविगमध्रौव्यात्मानः सर्वेऽपि ते पुनः॥ २६ ॥ पुद्गलाः स्युः स्पर्शरसगन्धवर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वधा, तत्राबद्धाः किलाणवः ॥३०॥ बद्धाः स्कन्धा वद्धशब्दसौक्ष्म्यस्थौल्याकृतिस्पृशः । अन्धकाराऽऽतपोद्योतभेदच्छायात्मका अपि ॥ ३१ ॥ कर्मकायमनोभाषाविष्टितोच्छ्वासदायिनः । सुखदुःखजीवितव्यमृत्यूपग्रहकारिणः ॥ ३२॥ प्रत्येकमेकद्रव्याणि, धर्माधौं नभोऽपि च । अमूर्त्तानि निष्क्रियाणि, स्थिराण्यपि स सर्वदा ॥ ३३॥ एकजीवपरीणामसङ्ख्यातीतप्रदेशकौ । लौकाकाशमभिव्याप्य, धर्माधौं व्यवस्थितौ ॥३४॥
॥३०॥

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404