Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रभ
स्वामि
चरित्रम्
॥ ३८८ ॥
पोषं धर्मस्य यो धत्ते स पौषधचतुविधः । देशतः सर्वतश्चैव कृतः पुण्याय जायते ॥ २ ॥ गृहीते पौषधेऽवश्यं, चीयते कर्मसञ्चयः । गरुत्मति सदाऽऽसन्ने, कापि नश्यन्ति पन्नगाः ॥ ३ ॥ पुण्यास्ते ये हि गृह्णन्ति भावतः पौषधव्रतम् । यत्तस्मात्क्षीयते कर्म, ततः शाश्वतिकं सुखम् ॥ ४ ॥
चतुर्विधाहारपात्रवस्त्रोकोदानमत्र यत् । अतिथिभ्यस्तदतिथिसंविभागवतं मतम् ॥ १ ॥ अन्नादीनामिदं दानमुक्तं धर्मोपकारिणाम् । धर्मोपकारबाह्यानां स्वर्णादीनां न तन्मतम् ॥ २ ॥ काले ह्य् पासकः सर्वशुद्धं दानं ददत्किल । अविच्छिन्नान् भवे प्राप्य, भोगान् स लभते शिवम् || ३ || चत्वार्येतानि नित्यं तु, कार्याण्युपासकेन यत् । तच्छिक्षाव्रतसंज्ञानि ह्यादिष्टान्यत्र यत्यताम् ॥ ४ ॥
1
ज्ञेयानि सप्ततत्त्वानि, श्रमणोपासकैः सदा । यथा तदनुसारेण धर्मे सूक्ष्मक्रिया भवेत् ॥ १ ॥ जीवाजीव श्रवापि, संवरो निर्जराऽपि च । बन्धो मोक्षश्चेति सप्त, वित्त तत्त्वानि भो ! जनाः ॥ २ ॥ तत्र जीवा द्विधा ज्ञेया, मुक्ताः संसारिणस्तथा । अनादिनिधनाः सर्वे, ज्ञानदर्शनलक्षणाः ॥ ३ ॥ मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥ ४ ॥ संसारिणो द्विधा जीवाः, स्थावरत्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्ता पर्याप्त विशेषतः ॥ ५ ॥ पर्याप्तयश्च पडिमा पर्याप्तत्वनिबन्धनम् । आहारो वपुरक्षाणि, प्राणो भाषा मनोऽपि च ॥ ६ ॥
द्वितीयः परिच्छेदः
| गुणशिक्षाव्रतानि सप्त तत्त्वानि च ।
| ॥ ३८८ ॥

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404