Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रभस्वामि
द्वितीयः परिच्छेद
चरित्रम्
॥३८६॥
गुणशिक्षाव्रतानि सप्ततत्त्वानि च।
अन्योऽपि राजलोकोऽथ, पौरलोकश्च भावतः । जैनाचार्योपदेशेन, जिनधर्मपरोऽभवत् ॥ ८३॥ राज्ञः प्राणप्रियः पुत्रो, नाम्ना धर्ममतिः स तु । परिग्रहपरीमाणं, मितमादाद्गुरोः पुरः॥४॥ सूरीन् विसृज्य राजाऽथ, बभूव धर्मतत्परः । धर्मान्मतिः कुमारोऽपि, किश्चित्परिग्रहोऽभवत् ।। ८५॥ आयुःपूतौ नृपो धर्मप्रभावात् प्रययौ दिवम् । ततोऽमात्यै पपदेऽभाणि धर्ममतिः स तु ॥ ८६ ॥ आते राज्ये परिग्रहो, भूयान् स्यादिति निःस्पृहः । कुमारो नाग्रहीद्राज्य, परिग्रहनियन्त्रितः ॥ ८७॥ त्यक्तराज्योऽपि स जने, मान्योऽभूदिन्द्रवत्सदा । बुद्धिमांश्च प्रतापी च, धर्मे श्लाघां जगाम च ॥ ८८॥ त्रुटत्परिग्रहः सोऽथ, कुमारो गृहमेधिनाम् । प्रपान्य व्रतमादाय, पूर्णायुर्दिव्यभूद्धरिः ॥ ८ ॥ इति धर्ममतिः स्वल्पपरिग्रहव्रतो यथा । प्राप शक्रत्वमित्थं स्यादन्योऽपि निष्परिग्रहः ॥१०॥
॥इति परिग्रहप्रमाणे धर्ममतिकथा ॥ योऽङ्गीकृतोऽवधिदिक्ष, दशस्वपि न लङ्घयते । दिग्विरतिरिति प्रोक्तं, प्राच्यमेतद्गुणवतम् ॥१॥ तप्तायोगोलतुल्यानां, गृहिणां सद्वतं ह्यदः । यच्चराचरजन्तूनां, मर्दनं क्रियते नहि ॥ २॥ गन्तु सर्वासु यो दिक्षु, विदध्यादवधिं सुधीः । स्वर्गादौ निरवधयो, जायन्ते तस्य सम्पदः ॥३॥ तदेतद्यावज्जीवं वा, सद्वतं गृहमेधिनाम् । चातुर्मासादिनियमादथवा स्वल्पकालिकम् ॥ ४ ॥
॥३८६॥

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404