SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि द्वितीयः परिच्छेद चरित्रम् ॥३८६॥ गुणशिक्षाव्रतानि सप्ततत्त्वानि च। अन्योऽपि राजलोकोऽथ, पौरलोकश्च भावतः । जैनाचार्योपदेशेन, जिनधर्मपरोऽभवत् ॥ ८३॥ राज्ञः प्राणप्रियः पुत्रो, नाम्ना धर्ममतिः स तु । परिग्रहपरीमाणं, मितमादाद्गुरोः पुरः॥४॥ सूरीन् विसृज्य राजाऽथ, बभूव धर्मतत्परः । धर्मान्मतिः कुमारोऽपि, किश्चित्परिग्रहोऽभवत् ।। ८५॥ आयुःपूतौ नृपो धर्मप्रभावात् प्रययौ दिवम् । ततोऽमात्यै पपदेऽभाणि धर्ममतिः स तु ॥ ८६ ॥ आते राज्ये परिग्रहो, भूयान् स्यादिति निःस्पृहः । कुमारो नाग्रहीद्राज्य, परिग्रहनियन्त्रितः ॥ ८७॥ त्यक्तराज्योऽपि स जने, मान्योऽभूदिन्द्रवत्सदा । बुद्धिमांश्च प्रतापी च, धर्मे श्लाघां जगाम च ॥ ८८॥ त्रुटत्परिग्रहः सोऽथ, कुमारो गृहमेधिनाम् । प्रपान्य व्रतमादाय, पूर्णायुर्दिव्यभूद्धरिः ॥ ८ ॥ इति धर्ममतिः स्वल्पपरिग्रहव्रतो यथा । प्राप शक्रत्वमित्थं स्यादन्योऽपि निष्परिग्रहः ॥१०॥ ॥इति परिग्रहप्रमाणे धर्ममतिकथा ॥ योऽङ्गीकृतोऽवधिदिक्ष, दशस्वपि न लङ्घयते । दिग्विरतिरिति प्रोक्तं, प्राच्यमेतद्गुणवतम् ॥१॥ तप्तायोगोलतुल्यानां, गृहिणां सद्वतं ह्यदः । यच्चराचरजन्तूनां, मर्दनं क्रियते नहि ॥ २॥ गन्तु सर्वासु यो दिक्षु, विदध्यादवधिं सुधीः । स्वर्गादौ निरवधयो, जायन्ते तस्य सम्पदः ॥३॥ तदेतद्यावज्जीवं वा, सद्वतं गृहमेधिनाम् । चातुर्मासादिनियमादथवा स्वल्पकालिकम् ॥ ४ ॥ ॥३८६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy