Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रभस्वामि चरित्रम्
॥३५७॥
पर्यायायुःश्रुतैस्त्रेधा, स्थविराणां सुभक्तता [५] । स्वस्माच्छु ताधिकानां च, वात्सल्यं विनयादिना [६]॥ ६ ॥ विश्रामणादिवात्सल्यं, तपस्विनां महात्मनाम् [७] । द्वादशाङ्गयां तु सूत्रार्थोमयोपयोगशालिता [८] ॥ ७॥ .
द्वितीयः शङ्कादिदोषरहितं, सम्यग्दर्शनमेव च [ह]। ज्ञानदर्शनचारित्रोपचार विनयस्तथा [१०] ॥८॥
परिच्छेदः इच्छामिथ्याद्यावश्यकेष्वनतिचारिताऽपि च [११] । मृलोत्तरगुणेष्वेवमतीचारविवर्जनम् [१२] ॥६॥ शुभध्यानस्य करणं, पणे क्षणे लवे लवे [१३] । शरीरचित्तसौस्थ्येन, यथाशक्ति तपोऽपि च [१४] ॥१०॥ विंशतिस्थाअन्नादीनां संविभागो, मनःशुद्धथा तपस्विषु [१५] । आचार्यादीनां दशाना, वैयावृत्त्यं सुनिश्चितम् [१६] ॥ ११॥ KI
नकस्वरूपः। सङ्घस्यापायविध्वंसात् , समाधिमनसोऽपि च [१७] । अपूर्वापूर्वज्ञानस्य, ग्रहणं चित्तनिग्रहात [१८] ॥१२॥ अश्लाघोच्छेदाच्छ्रद्धानाच्छ तज्ञानस्य भक्तता [१६] । विद्याधर्मकथाद्यैश्च, शासनस्य प्रभावना [२०] ॥ १३ ॥ अप्येकं तीर्थ नामकर्मणो बन्धकारणम् । मध्यादेभ्यः स पुण्यात्मा, सर्वैरपि बबन्ध तत् ॥ १४॥ कालेन क्षपयित्वायुव॑न्द्रोः प्रथम फलम् । विमानं वैजयन्ताख्यं, स जगाम महातपाः ॥१५॥ ततश्च वैजयन्तस्थः, स जीवः पद्मभृपतेः। पूरयित्वायुर्जातोऽस्मि भवेऽस्मिन्नेष तीर्थकृत् ॥१६॥ इति पूर्वभवौ स्वस्येत्युक्त्वाऽहनष्टमः क्रमात् । क्षेत्रे चन्द्रप्रभासाख्ये, तीरेऽब्धेः समवासरत् ॥ १७ ॥ समवसरणाधानं, सर्वदेवः कृतं ततः सिंहासनमलङ्कृत्य, चक्र स्वामीति देशनाम् ॥ १८॥
॥३५७॥

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404