Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चन्द्रप्रभस्वामि
चरित्रम्
॥३८१॥
१३ ॥
अस्ति कुमुद्दती नाम, पुरी कुमुदसोदरा । यद्दधाति श्रियं राज्ञा, लालिता मृदुभिः करैः ॥ रणे नम्रशिरचापं, चक्रे तदनुभूभुजः । येन सोऽस्ति नृपस्तत्र, रणसूराभिधो जयी ॥ १४ ॥ रणसूरस्य पुत्रोऽस्ति, नाम्ना धर्ममतिः सुधीः । अन्यदा सदसि क्ष्मापः, सपौरः समुपाविशत् ।। १५ ।। पप्रच्छ भूपतिर्द्वास्थं कोऽप्यस्ति ज्ञानवित्पुरे । सन्ति दर्शनिनस्तेनेत्युक्तेऽथाकारयत् स तान् ।। १६ ।। समागत्योपविष्टांस्तान् राजा पप्रच्छ साञ्जसम् । त्रिकालज्ञानविषये, ब्रूत प्रत्ययमत्र मे ॥ १७ ॥ ज्ञातृत्वोत्सेकवान् कोऽपि द्विजः प्राह पुरैव हि । राजन् ! श्रेष्ठिधनाढ्यस्य, सायं भार्या मरिष्यति ॥ १८ ॥ एष मे प्रत्ययो ज्ञाने, ततो बौद्धं नृपोऽवदत् । यदेष ब्राह्मणः प्राह तत्सत्यं भविता न वा १ ॥ १६ ॥ बौद्धः प्राह नृपैतद्वाग्, मिथ्यैव यद्वणिक प्रिया । वर्षाणां विंशतिं सम्यग् जीविष्यति ह्यतः परम् ॥ २० ॥ मिथो विरुद्ध तद्वाचं, निशम्याह महीपतिः । जैनाचार्यान् कतरस्य, वाक् सत्या भाविनी प्रभो ! १ ॥ २१ ॥ राजोपरोधाप्याशु प्रयुज्यावधिमात्मना । ज्ञात्वा यथातथं प्रोचुः, सूरयो नृपतिं प्रति ॥ २२ ॥ द्वयोरप्येतयोरुक्तं भावि सत्यं महीपते । इदमतिविरुद्ध मित्यभूद्विस्मयभाग् नृपः ॥ २३ ॥ तान् दैवज्ञान विसृज्याथ, राजा धनाढ्यमृचिवान् । याहि वेश्मनि पुम्भिस्त्वं विलोकय दिनात्ययम् ॥ २४ ॥ कुरु यत्नं कलत्रस्यावहितीभूय पश्य च । एतेषां मध्यतः कस्य, वाचं सत्यापयेद्विधिः १ ।। २५ ।। इत्युक्तो भूभुजा श्रेष्ठी, धनाढ्योऽथ गृहं ययौ । सोऽचीकथद्यथावृत्तं गेहिन्यै स्नेहसमने || २६ ||
1
द्वितीयः
परिच्छेदः
परिग्रहप्रमाणे धर्ममतिकथा ।
||३८१॥

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404