Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 382
________________ चन्द्रप्रभस्वामि चरित्रम् ॥३७४॥ निशम्येति कृतश्रद्धः कुमारोऽभ्यासमादधौ । व्योम्न्युच्छाल्य पुनः पाति, पूगाद्यादातुमुन्मुखः ॥ १३ ॥ ततः कृष्ण चतुर्दश्यां, पुरासन्ननदीतटे । आलिख्य मण्डलं योगी, कुमारं स्वयमन्वशात् ॥ १४ ॥ मया मन्त्रैः पात्यमानं, नक्षत्रमुन्मुखो गिलेः । त्वं मा दा दृशमन्यत्र, पश्यंस्तिष्ठेनभः पुनः ॥ १५ ॥ ओमित्युक्त्वा कुमारेऽथ, पश्यत्यम्बरमुन्मुखे । योगी दिव्यौषधीपिण्डों, चिक्षेपोच्चैर्नभस्यथ ॥ १६ ॥ क्रमेणौषधपिण्डी सा, पतन्ती नभसो द्रुतम् । स्पृष्टाऽनिलेन जज्वाल, दिव्यौषधप्रभावतः ॥ १७ ॥ एतन्नक्षत्रमभ्येति, सावधानो गिल द्रुतम् । इत्युक्तो योगिना शीघ्र, कुमारस्तत्तथाऽकरोत् ॥ १८ ॥ गिलिता च कुमारेण, सा दिव्यौषधपिण्डिका । सोऽभूच्च तत्क्षणात् स्वर्ण पुरुषो गतजीवितः ॥ १६ ॥ तं तथा वीक्ष्य योगीन्द्रो, दध्यौ सिद्धं समीहितम् । तन्निःखनाम्यधो हो नं, यथा पश्यति नापरः ॥ २० ॥ विलम्ब्य च ग्रहीष्यामि, तमिति न्यखनद्भुवि । कृत्वाऽभिज्ञानमन्यत्र गत्वा सुष्वाप योग्यथ ॥ २१ ॥ इतश्च नगरे तस्मिन् दरिद्रः कोऽपि तिष्ठति । तस्य जातास्तु पुत्रयोऽष्टाबन्धाः पङ्ग्वश्च सन्ति ताः ॥ २२ ॥ पिङ्गाक्ष्यः पिङ्गकेश्यश्च, कपिलाङ्गयः खरस्वराः । चिपिटनासिकाः स्थूलकुचिपादकराश्च ताः ॥ २३ ॥ दरिद्रोऽपि दरिद्रत्वान्निर्विण्णस्तास्वचिन्तयत् । एता रण्डा हि मां भोक्तुमुत्पन्ना मम वेश्मनि ॥ २४ ॥ स्त्रीहत्या भाविनी चेन्मे, तदस्तु सा तथाप्यहम् । क्वाप्येता निखनिष्यामि, यद्ग्रासं दातुमक्षमः ॥ २५ ॥ अन्धाः पवस्तथैता हि, बाला दुष्कर्मणा कृताः । दुष्कर्मभिः समाप्यन्ते, ततो दोषो ममास्ति न ॥ २६ ॥ द्वितीयः परिच्छेदः चतुर्थव्रते मदनमंजरी कथा । ॥ ३७४॥

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404