Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 385
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेदा ॥३७७॥ चतुर्थव्रते मदनमंजरीकथा। उच्चैः प्रलप्य ताः प्रोचुश्विरादृष्टः क यासि तत् । न मोक्ष्यामो वयं त्वां हि, येन नो भक्ष्यमस्यहो!॥ ५५॥ राजा श्रुत्वेति तद्वाचमात्मन्यपायभीरुकः । तासां दृष्ट्वा च तां मृत्ति, ता व्यन्तरीरमन्यत ॥ ५६ ॥ भूपतिस्तद्भयान्नंष्टा, गतोऽन्यत्राकुलोऽवदत् । एताभिव्यन्तरीभिर्भो !, भाव्यं तनश्यत दूतम् ॥ ५७ ॥ तदा च साद्ध केनाऽपि, दरिद्रस्तत्पिता बहिः। आगतोऽभूत्पुरा तत्र, तत्सोऽश्रौषीद्यथातथम् ॥ ५८ ॥ स एष स्वर्णपुरुषस्ता एताश्च सुता मम । आकृष्टा मान्त्रिकेणेति, ध्यात्वा निःस्वोऽवदन्नृपम् ॥ ५६ ॥ राजन् ! यदि त्वमेतासां, दत्से शासनपूर्वकम् । ग्रामं कमपि मां तत्र, प्रमाणं च करोषि चेत् ॥ ६॥ तदा निवर्तयाम्येता, इत्युक्ते तेन भूपतिः। शासने दापयामास, ग्रामं कमपि तत्क्षणात् ॥ ६१॥ ततश्च स दरिद्रोऽपि, गृहीत्वा निशिताः सुताः । राज्ञा दत्ते तत्र ग्रामे, गत्वा प्रामपतिस्त्वभूव ॥ ६२ ॥ पश्चाच्च भूपतिर्दृष्टा, तं स्वर्णपुरुष स्थिरम् । परित्यज्य सुतस्नेह, तस्मिन् लोभी बभूव सः॥ ६३ ॥ अदत्त्वा दर्शनं राजा, प्रतीहारान्न्यवेदयत् । योगिने यन स स्वर्णपुरुषः प्रापि कुत्रचित् ।। ६४॥ ज्ञात्वा योगी च राजानं, लोभिनं स्वर्णपूरुषे । निर्माय कुमार शक्त्या, तस्मादभाषयन्नृपम् ॥ ६५॥ योगिना निर्मितः सोऽथ, कुमारः प्राह भूपतिम् । तातेदं स्यात् क्वचिद्यद्भोः!, स्वार्थ त्यज्यते सुतः ।। ६६ ॥ अपहृतोऽस्मि योगिन्या, मन्मां सोमवाञ्छया। तत्सकाशादयं योगी, मामाच्छिद्य विहानयत् ॥ ६७ ।। आवाल्यादस्मि ते प्राणप्रियस्तत्तात ! मां कथम् ? । विलक्षयोगिना भूयो, नीयमानमुपेक्षसे ? ॥६८ ॥ ||३७७॥

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404