Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 381
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेद ॥३७३॥ चतुर्थव्रते मदनमंजरी कथा। ॥अथ चतुर्थव्रते मदनमञ्जरीकथा ॥ प्रभवन्ति रुजो नाङ्ग, विलीयन्ते ा पद्रवाः । जायन्ते सिद्धयः सर्वा, यस्मात्तद्ब्रह्म सेव्यताम् ॥ १ ॥ निर्वाति ज्वलनो नीरपूरो व्यावर्त्तते द्रुतम् । व्याघ्राहिराक्षसाः स्निह्यन्त्यस्य यो ब्रह्मचर्यकृत् ॥ २ ॥ अल्पाहाराद्वपुःशोषस्ततोऽक्षाणाममत्तता । मनःस्थय ततस्तस्माद्ब्रह्मरक्षा ततः शिवम् ॥ ३ ॥ ततो नियमकष्टानि, दुष्कराणि व्रतानि च । फलन्ति सेवनाद्यस्य, सेवध्वं ब्रह्म तत् स्थिरम् ॥ ४ ॥ तच्छीलापरपर्याय, सर्वव्रतशिरोमणि । जायते भविनां सिद्धथ, राजपुत्रकलत्रवत् ।। ५॥ अस्ति पूर्वनरम्याख्या, यद्वनेषु जनेष्विव । दत्त्वा फलश्रियं नाभूत्पश्चात्तापः कदाचन ॥ ६॥ राजाऽभूत्तत्र भूभीमो, यस्य खड़गदवानलः । आयान्न स्खलितः क्वापि, भृमृत्कटककोटिभिः ॥ ७॥ तस्य राज्ञः कुमारोऽस्ति, सूरसेनाभिधः सुधीः । मदनमञ्जरी नाम, कुमारस्यास्ति वल्लभा ॥८॥ अन्यदा कोऽपि योगीन्द्र, इन्द्रजालविदावरः । अदृश्यकारिप्रयोगे, कुमारेणान्वयुज्यत ॥ ६ ॥ स दध्यौ मायिकः साधु पृष्टं स्वेनामुना बदः । कृत्वाऽऽडम्बरमेवात्र, साधयामि समीहितम् ॥ १० ॥ ततः प्राह कुमारं स, मयाऽऽकृष्टं पतद्दिवः । प्रतीष्य व्यात्तवक्त्रेण, ऋक्षं यो भक्षयेत्पुमान् ॥ ११ ॥ तदेव च मया दत्तमन्त्रेण दीक्षितो निशि। यदाभीष्टमदृश्यः स्यात् , स तदा नात्र संशयः॥१२॥ | ॥३७३॥

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404