Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 363
________________ चन्द्रप्रमस्वामि द्वितीयः परिच्छेदा चरित्रम् अभिग्रहे सिद्धकथा। ॥३५॥ दृष्टा सिद्धप्रियां पञ्चनमस्कारोज्झनोद्यताम् । व्याषेधुतामुपायेन, व्यन्तरी द्यौत्तुकायत ॥ २७॥ दृष्टा तां गर्भिणी जीवद्र्मा विषोर्मिमृञ्छिताम् । सा जातकृपा स्त्रीरूपमाधायैषां पुरोऽभवत् ॥ २८॥ उच्चैराक्रन्दतस्तांश्च, प्रोवाच व्यन्तरी स्वयम् । मा मा रुदित दीनास्या, अस्त्यस्या जीवने क्रिया ।। २६ ॥ पश्यतां याति या स्त्रीयं, महामन्त्रोऽस्ति तत्करे । तन्मन्त्रपत्रमेतस्या मुच्यतामुदरे क्षणात् ॥३०॥ यथैषा निर्विषोत्थाय, पद्भ्यां याति गृहं निजम् । श्रुत्वेति गर्भिणीलोकोऽधावीत् सिद्धवधूप्रति ॥ ३१ ॥ त्यक्तुकामा पुराप्येषा, सदैन्यं प्रार्थिता तु तैः । परमेष्ठिनमस्कारपत्रं तान् प्रत्यथाविपत् ॥ ३२॥ ततस्तैः श्रद्धया पत्रं, न्यस्तं तदुदरे किल । उत्तस्थौ गतमूर्छाहो!, प्रभावः परमेष्ठिनाम् १ ॥३३॥ सर्वेषां विस्मयो जज्ञे, व्यन्तरी सा तिरोदधे । सिद्धभार्याऽपि तद्वीक्ष्य, चित्ते सम्भावना दधौ ॥३४॥ किमयं हि महामन्त्रो, यत्प्रभावान्मृताप्यसौ । जीविता तदयं ग्राह्यो, न त्याज्य इति तं ललौ ॥ ३५ ॥ ततश्च ग्रामपतिना, प्रियाजीवनतुष्टितः । प्रददे सिद्धभार्याय, पारितोषिककाश्चनम् ॥ ३६॥ अन्यैश्च बन्धुभिस्तस्याः, प्रदत्तं काश्चनं बहु । गृहीत्वा तन्नमस्कारपत्रं स्वर्ण च सा ययौ ॥ ३७॥ यथास्थानं तया मुक्तं, तत्पत्रं श्रद्धया गृहे । सिद्धाय कथयित्वा तत् , तं भक्त्याराधयत्स्वयम् ॥३८॥ यथा गृहीतान् सिद्धोऽपि, नियमान् पालयन् स्फुटम् । आत्मानं निर्मलीचके, पापपङ्कविशोधनात् ॥ ३९ ॥ वर्षाकाले निवृत्तेऽथ, तद्ग्रामे समवासरत । विहरन् केवलज्ञानी, देवासुरपुरस्कृतः॥४०॥ ॥३५॥

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404