Book Title: Chandraprabhswamicharitam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 375
________________ द्वितीयः परिच्छेद चन्द्रप्रमस्वामि चरित्रम् ॥३६७॥ सत्वते स्मरनन्दनकथा। कामपताका तु नीचेोत्रा सुलभदुनया । एनं प्रावन्धयद्भाडं, कशाभिर्दागताडयत् ॥ ५० ॥ तथाप्यमन्यमानोऽसौ, नृपादेशाद्वेषकैः । राजाध्यक्षस्तत्र दृष्टा, नीतो दाग नृपतेः पुरः ॥ ५१॥ . पृष्टश्च तत्क्षणाद्राज्ञा, सत्या वा शुकवाग् न वा १ । ततो दध्यौ स्मरसुतः, कुर्वत्र किमहं किल १॥ ५२॥ कथयिष्यामि चेत्सत्यं, विलक्षो नृपतिस्तदा । कर्ता विरूपं पत्न्यां तत्सत्यमप्यहितं मृषा ॥५३॥ अथवा ज्ञायते वाग्भिन पो वैराग्यवानभूव । कर्त्ता नैवाहितं कापि, किन्तु कर्त्ता शुभं खलु ॥ ५४॥ इत्यालोच्य स्मरसुतः, प्रोवाच शुकवाग् नृप ! । भाति सत्येव किश्च वं, मालिन्यं मास्म मन्यथाः॥ ५५॥ कर्मप्रभावादात्मायं, व्यवहारोत्तमाधमान् । प्रविशन् विग्रहगृहान् , नैव स्यान्मलिनः खलु ॥ ५६ ॥ किन्तु दुष्कर्मभिः स स्यान्मलिनोऽथ सुकर्मभिः । स्याभिर्मलस्ततः कार्य, सुकर्मोपार्जने मनः॥ ५७॥ वदत्येतत्स्मरसुते, समागात् कोऽपि केवली । राजानं प्रति चक्रेस, देशनां शुद्धिदायिनीम् ॥ ५॥ ततो राजा प्रबुद्धः स, तदन्ते जगृहे व्रतम् । कामपताकाऽपि श्रुत्वा, जगृहे व्रतमुत्तमम् ॥ ५६ ॥ अन्यान्वयोद्भवायाऽपि, सत्यत्वात् स्वीकृताय तु । स्मरपुत्राय दत्त्वद्धि, प्राब्राजीद्विमलोऽपि हि ॥६०॥ अथ स स्मरपुत्रोऽपि, गृहस्थव्रतधारकः । सत्यव्रतं प्रपाल्यव, व्रतादानाद्ययौ शि(दि)वम् ॥ ६१॥ ॥ इति सत्यव्रते स्मरनन्दनकथा ॥ ॥३६७॥

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404