________________
द्वितीयः परिच्छेद
चन्द्रप्रमस्वामि चरित्रम्
॥३६७॥
सत्वते स्मरनन्दनकथा।
कामपताका तु नीचेोत्रा सुलभदुनया । एनं प्रावन्धयद्भाडं, कशाभिर्दागताडयत् ॥ ५० ॥ तथाप्यमन्यमानोऽसौ, नृपादेशाद्वेषकैः । राजाध्यक्षस्तत्र दृष्टा, नीतो दाग नृपतेः पुरः ॥ ५१॥ . पृष्टश्च तत्क्षणाद्राज्ञा, सत्या वा शुकवाग् न वा १ । ततो दध्यौ स्मरसुतः, कुर्वत्र किमहं किल १॥ ५२॥ कथयिष्यामि चेत्सत्यं, विलक्षो नृपतिस्तदा । कर्ता विरूपं पत्न्यां तत्सत्यमप्यहितं मृषा ॥५३॥ अथवा ज्ञायते वाग्भिन पो वैराग्यवानभूव । कर्त्ता नैवाहितं कापि, किन्तु कर्त्ता शुभं खलु ॥ ५४॥ इत्यालोच्य स्मरसुतः, प्रोवाच शुकवाग् नृप ! । भाति सत्येव किश्च वं, मालिन्यं मास्म मन्यथाः॥ ५५॥ कर्मप्रभावादात्मायं, व्यवहारोत्तमाधमान् । प्रविशन् विग्रहगृहान् , नैव स्यान्मलिनः खलु ॥ ५६ ॥ किन्तु दुष्कर्मभिः स स्यान्मलिनोऽथ सुकर्मभिः । स्याभिर्मलस्ततः कार्य, सुकर्मोपार्जने मनः॥ ५७॥ वदत्येतत्स्मरसुते, समागात् कोऽपि केवली । राजानं प्रति चक्रेस, देशनां शुद्धिदायिनीम् ॥ ५॥ ततो राजा प्रबुद्धः स, तदन्ते जगृहे व्रतम् । कामपताकाऽपि श्रुत्वा, जगृहे व्रतमुत्तमम् ॥ ५६ ॥ अन्यान्वयोद्भवायाऽपि, सत्यत्वात् स्वीकृताय तु । स्मरपुत्राय दत्त्वद्धि, प्राब्राजीद्विमलोऽपि हि ॥६०॥ अथ स स्मरपुत्रोऽपि, गृहस्थव्रतधारकः । सत्यव्रतं प्रपाल्यव, व्रतादानाद्ययौ शि(दि)वम् ॥ ६१॥
॥ इति सत्यव्रते स्मरनन्दनकथा ॥
॥३६७॥