SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ स्वामि द्वितीयः परिच्छेदः चरित्रम् ॥३६६॥ सत्यव्रते स्मरनन्दनकथा। स चेन्मे कथयत्येतत्ततः प्रत्येमि नान्यथा । तद्वचांसि विना राज्यं, त्यक्त्वा तीर्थानि गम्यहम् ॥३६॥ मन्त्री श्रुत्वेति भूपोक्तं, राजपत्नीमुपाययौ । आचख्यौ राजवाचं च, साऽथ श्रेष्ठिनमाह्वयत् ॥ ३७॥ आख्याय शुकवृत्तान्तमभाणीच्छेष्ठिनं तु सा । तव पुत्रकवाक्येन, प्रत्येति नृपतिस्ततः॥३८॥ तथा त्वया स आदेश्यः, शुकवाचं यथाऽन्यथा । कुत्वा प्रत्यापयत्येष, राजानं पहिलाग्रहम् ॥३६॥ गत्वा कारय शीघ्र तदित्यादिश्य स्वयं तु सा । सन्मान्य श्रेष्ठिनं वस्त्रादिभिर्दाग विससर्ज च॥४०॥ गत्वा श्रेष्ठयप्यभाणीतं, स्मरनन्दनमेष च । शासनदेवीमाराध्यापृच्छद्यतिकरं हि तम् ॥ ४१ ॥ तयाऽऽख्यायि यदेषा हि, नृपभार्यान्त्यजान्वया । कार्यों नैवात्र सन्देहः, प्रमाणं शुकवाग खलु ॥ ४२ ॥ ततश्च श्रेष्ठिना साई, समेत्य स्मरनन्दनः। चख्यौ तस्यै हि यत्कीरवाचः स्युरन्यथा नहि ॥४३॥ कामपताकाऽथ प्रोचे, यद्यप्येवं तथापि हि । राज्ञोऽग्रं शुकवाक्कथ्या, मिथ्या मदुपरोधतः॥४४॥ तां स्मरात्मभवः प्राह, नैवासत्यं वदामि यत् । धर्मोक्षा दुःखरक्ष्यः स्यात् , सत्यवाग्वृतिभङ्गतः॥ ४५ ॥ कामपताका तं प्रोचे, पापं भावि यदत्र ते । तन्मे भूयाद्यद्वाग्दत्तं, लभ्यते हि शुभाशुभम् ॥ ४६॥ लौकिकव्यवहारोऽयं, नागमा अवते बदः। सत्यासत्यफलप्राप्तिर्वक्तुस्तन वे मृषा ।। ४७॥ स्मरस्य नन्दनेनेति, प्रोक्ता प्रोवाच कोपतः । मद्वाचं चेत्र कासि, तदकाले मरिष्यसि ॥४८॥ स्मरस्य नन्दनोऽवादीद्विधेहि यद्यथोचितम् । वरं हि मृत्युमिच्छामि, न त्वसत्यं वदाम्यहम् ॥ ४६॥ ॥३६६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy