________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥३६॥
सत्यव्रते स्मरनन्दन-' कथा।
कामपताकाऽथ दध्यो, न वेमि स्वं कुलं व वा । तच्छृणोमि यद्राजाऽयं, बन्दिनों मामुपायत ॥ २२ ॥ शुकश्च सर्ववित्त्वेन, ख्यातो ब्रूते यदत्र तत् । लोकः प्रत्येति तत्कीरवाक् कार्या कथमन्यथा १ ॥ २३ ॥ इति साऽऽलोच्य चित्तेनाजूहवन्मुख्यमन्त्रिणम् । शुकवाचं निवेद्याऽस्मै, स्वाभिप्रायं न्यवेदयत् ॥ २४ ॥ मन्त्रिन । कीरगिरा राजा, विचायव निययौ । दैवात्त्यक्तेऽमुना राज्ये, न त्वं नाहं च राज्यभाक ॥ २५ ॥ तदेषा क्रियते बुद्धियंत्र जानन्ति किश्चन । ते हि दत्त्वार्थमत्यर्थ, क्रियन्ते शीघ्रमात्मसात् ॥ २६ ॥ ततो राज्ञः पुरस्तात्ते, भाण्यन्ते प्रोच्चकैरिदम् । यदेष पक्षी सर्वत्र, राजन् ! ब्रूते मृषावचः ॥ २७ ॥ यदस्माभिनिमित्तानि, वीक्षितानि बहून्यपि । असत्या शुकवाग नूनं, तानीत्याख्यान्ति भूरिशः ॥२८॥ इति सा मन्त्रिणा सार्द्धमालोच्याकार्य सत्वरम् । वित्तैः सन्मान्य दैवज्ञान , यद्वक्तव्यमशिषयत् ॥ २६ ॥ ततश्च मन्त्रिणा सार्द्ध, ते पुरो नृपतेर्ययुः । शुकवाचं निराकत्तु मूचुः सम्भूय भूपतिम् ॥ ३०॥ तिर्यगजातिरसौ कीर, इत्यस्य प्रत्ययोऽत्र कः १ । ईक्षितं सम्यगस्माभिरसत्या शुकगीः खलु ॥ ३१ ॥ ऊचे मन्त्री ततो राजन् !, गम्यता सौधमात्मनः। आचारेणैव कथिता, त्वत्प्रिया सुकुलोद्भवा ॥ ३२ ॥ राजाह मेऽत्र सन्देहोऽभूत सोऽन्येने निवत्य॑ते । जानाम्यसत्याः सर्वेऽपि, नूनं नैमित्तिका अमी ॥ ३३॥ अस्त्यत्र नगरे श्रेष्ठी, विमलस्तस्य विद्यते । स्मरनन्दन इत्याख्यो, मानितः पुत्रको गुणी ॥ ३४ ॥ स बालब्रह्मचार्येव, सम्यक्त्वाराधनाप्रियः । स यत्पृच्छति तत्कणे, ब्रूते शासनदेवता ॥ ३५ ॥
1३६५॥