________________
चन्द्रप्रमस्वामि
द्वितीयः । परिच्छेदः
चरित्रम्
॥३६४॥
सत्यव्रते स्मरनन्दनकथा।
यद्भूतं यस्य यद्भावि, तत्तस्मै कथयन् स्फुटम् । सभाक्षोभकरः कीरः, पौरलौकमरञ्जयत् ॥८॥ राजा विज्ञाय तं कीरमाहवत् स्ववेत्रिणा । नरातपञ्जरस्थोऽयं, राजसंसद्यगाच्छुकः॥४॥ आलप्य कौतुकाद्राज्ञा, स्वास्थस्य सुतस्य सः । पृष्टो जन्मग्रहफलं, समाख्यत् प्रश्नविच्छुकः ॥१०॥ सुतस्तेऽयं महीनाथ !, भविष्यति महाविटः । हास्यपात्रीकृतात्मा च, जीविता शरदा शतम् ॥ ११ ॥ श्रुत्वेति नृपतिः कीरवाक्प्रत्ययान्निज सुतम् । शोचन् विषादमापन्नस्तस्थौ किश्चिदधोमुखः ॥ १२ ॥ ततः कामपताकाऽपि, कौतुकाच्छुकमात्मनः । जन्मस्वरूपमपाक्षीदाधिपत्यप्रमोदिता ॥ १३ ॥ आनाय्य प्रश्नमन्तस्तमवधाय विशेषतः । ध्यानात् किमपि विज्ञाय, मौनेनास्थाच्छुकश्चिरम् ॥ १४ ॥ ततः कामपताका साऽपृच्छत् कीर। वद द्रुतम् । कीरः प्राह शुभे! मा त्वं, प्राक्षीमौनं समाश्रय ॥ १५ ॥ आशङ्कितमनाः सा च, मा भूदस्मिन् श्रुते मम । मनसो दौस्थ्यमित्येषा, तस्थौ दाक्ष्येण मौनभाक् ॥ १६ ॥ ततश्च लक्ष्मणो राजा, तज्ज्ञातुमन्तरुत्सुकः । वभाषे शुकमाख्याहि, यथास्थितं विभेः स्म मा ॥ १७॥ राजन्नेषा तवात्यर्थ, प्रियेत्यस्या विरूपके । कथिते भावि ते दुःखं, तच्छके कथयन्त्रहम् ।। १८ ॥ इत्युक्ते शुकराजेन, कृत्वैकान्तं नृपोऽवदत् । यदृष्टं भवता सम्यक, प्रश्नाचं कीर ! तद्वद ॥ १६ ॥ शुकः प्राह नृपैषा ते, प्रियाऽन्त्यजकुलोद्भवा । अस्याः संसगतो जातः, सलोको मलिनो भवान् ॥२०॥ श्रुत्वेति शुकवाचं स, राजान्ताखेदमावहन् । नगरादहिरभ्येत्य, तस्थिवान दुःस्थमानसः ॥ २१॥
॥३६४॥