SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेदः आनीय ह्यस्तनदिने, मुक्ताऽस्म्यस्मिन् गृहेऽन्तिके । हरिष्यति स मे शीलमिति भीस्वामिहागमम् ॥ ६॥ तद्रक्ष रक्ष मां तस्मादेषा दास्यस्मि ते ध्रुवम् । मन्त्रिदासी ततः प्राह, मा भैषीस्तेऽस्मि रक्षिका ॥ ६ ॥ तां तूपलक्ष्य दध्यौ यज्जीवरक्षाफलं कियत् ? । प्राप्त विद्याधरैश्चर्य, सैषा दासी च मेऽभवत् ।। ७० ॥ इति जीवदयातत्त्वे, तस्याः संलीनचेतसः । भवितारः क्रमात्स्वर्गमोक्षसौख्यानि निश्चितम् ॥ ७१ ॥ ॥ इति जीवदयायां मन्त्रिदासीकथा ॥ ॥३६३॥ सत्यव्रते स्मरनन्दनकथा। ॥ अथ सत्यव्रते स्मरनन्दनकथा ॥ सत्यमेव वदेद्यस्मादिहामुत्र च देहिनः। जनानुरागादाढ्याः स्युर्भोक्तारश्च शिवश्रियः ॥ १॥ सत्येन दुर्जनः स्वः स्यात्का कथा महतां सताम् ? | विषमप्युपयोगि स्यान्मन्त्रेण किं पुनः परम् ॥२॥ असत्यवादकः स्वोऽपि, परः स्यात् सत्यवादकः । परोऽपि स्वो भवेन्नूनं, स यथा स्मरनन्दनः ॥ ३॥ पुरं श्रीपुरमित्यस्ति, तत्रास्ति लक्ष्मणो नृपः। यत्करेऽसिवधूलग्नाऽगृहात् प्रत्यार्थिनां करान् ॥ ४॥ तस्य कामपताकाख्याऽस्ति राजमहिषी प्रिया । या स्वबिम्बोष्ठरागेणारञ्जयत् कामिना मनः ॥ ५॥ पुरेऽस्मिन्नन्यदा ज्योतिःशास्त्रेऽधीती शुकोत्तमः । समागात् सर्वदैवज्ञमृर्द्धाभिषिक्ततां गतः ॥ ६॥ यो यत्पृच्छति तज्जन्मग्रहचारात्तदाह सः । संवदत्येव तत्सर्वमुच्चैर्नीचैः कुलादिकम् ।। ७॥ ।।३६३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy