________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीय परिच्छेदः
॥३६२॥
जीवदयायो मन्त्रिदासीन कथा।
वान्ते ताभ्यामदृष्टा सा, तद्विमानं समेत्य हि । निलीयास्थात् क्वचित्स्तम्भान्तरे न दृश्यते यथा ॥ ५४॥ ततो रत्नाङ्गदः किञ्चित् , स्थित्वा विमानमासदत् । यक्षेणोक्तं तथैवेति, स मत्वा तदतत्वरत् ॥ ५५ ॥ स स्वस्थानं क्षणात्प्राप, दासी प्रादुर्बभूव सा । स त सककूणां वीक्ष्य, यक्षोक्ते विस्मितोऽभवत् ॥५६॥ एह्य हि तन्धि ! यक्षेण, त्वं मे दत्तासि वल्लभा । इत्याश्लिष्य स तां रेमे, यक्षादेशाचतोऽभवत् ॥ ५७॥ प्रातः कङ्कणमाहात्म्यादेकाऽऽप्ता श्रेणिरात्मना । एत्य रत्नाङ्गदयुता, तां दासी स्वामिनी व्यधात ॥५८॥ जीवरक्षाकृतं पुण्यं, दासी चेतसि कुर्वती । आधिपत्यं गताऽप्येषा, दयाधर्मपराऽभवत् ॥ ५ ॥ दासीत्वापगमात स्वाम्याधिगमान्मुदमीयुषी। अन्यदा निशि पल्यके, सैषा सुष्वाप निर्भरम् ।। ६०॥ क्षणेन गतनिद्रयमथैकां स्त्रियमैक्षत । संवाहयन्ती चरणी, दासीमिव क्रमागताम् ॥ ६१॥ तया ग्रोचे हले ! का त्वं १, सा प्राह तेऽस्मि दास्यहम् । त्रायस्व स्वामिनि ! त्वं मां, गतिस्त्वं मेऽत्र नापरः ॥६॥ मन्त्रिदासी वभाषे ता, कत्यास्यत्रागतासि किम् ।। त्रातव्याऽसि कुतो ब्रूहि, कान्दिशीके ! विभेः स्म मा॥ ६३॥ ततः सा रुदती पाह, शृणु देवि ! प्रसादतः। रिपुमर्दनस्य राज्ञः, सुताम्येलापुरेशितुः ॥ ६४ ॥ कामलेखाभिधा साहमेकदाऽगां सखीयता । नद्यां हि जलकेल्यर्थमारूढा नावमायताम् ॥६५॥ ततोऽभून्मरुदुद्दण्डो, नौः पुस्फोटाऽमुना हता। मदीयः स सखीवर्गः, क्वाप्यगात्तन्न वेम्यहम् ।। ६६ ।। अहं फलकमेकं च, प्राप्यारूढास्मि तदृढम् । विद्याधरेण केनाऽपि, दृष्टा तेन हताऽस्मि च ॥ ६७ ॥
॥३६२॥