________________
द्वितीयः परिच्छेदा
चन्द्रप्रमस्वामि चरित्रम्
॥३६१॥
जीवदयायो मन्त्रिदासीकथा।
भूयास्त्वमेव मे स्वामीत्युक्त्वा सा संसखी ययौ । यक्षाग्रहस्तं दासी च, तथैव समयोजयत् ॥ ४०॥ ततो विद्याधरौ द्वौ च, यक्षवेश्माग्रमेत्य तौ । बहिमुक्त्वा विमानं च, यक्षोपान्तमथेयतुः ।। ४१ ॥ एकः प्राह सखे ! कुन्दप्रभ! त्वं वेत्सि वा न वा ? । कङ्कणाख्यानमाहाऽन्यो, रत्नाङ्गद ! न वेम्यहम् ॥४२॥ ततो रत्नाङ्गदश्चख्यौ, किलैषा कङ्कणद्वयी । विद्याधरपतेदत्ता, तुष्टेनोरगम णा ॥४३॥ प्रभावश्चास्या य एते, द्वे अलङ्कुरुते पुमान् । दक्षिणोत्तरश्रेण्योः स, वैताढये प्रभुतां व्रजेत् ॥ ४४ ॥ अथैकं तत्पुरश्रेणेरेकस्याः स प्रभुभवेत् । तदशेन च सर्वर्द्धिस्तस्य सम्पद्यतेऽचिरम् ॥ ४५ ॥ ततो विद्याभृतो व्योम्ना गच्छतः स्वप्रियां प्रति । चपेटाप्रेरिताद्धस्तात् , पपातकं हि कङ्कणम् ॥ १६ ॥ वीक्षितं बहुशोप्येतन्नाप विद्याधरेश्वरः । य एतत्प्राप्यते भावी, स एकश्रेणिभूपतिः॥४७॥ श्रुत्वेति तद्वचो दासी, सस्मार कङ्कणं हि तत् । राजपुत्र्यान्तिके मेऽङ्के, यदेतत्पतितं किल ॥४८॥ अहो ! मे जीवरक्षायाः, फलं जातमिहैव यत् । प्राप्तं कङ्कणमस्माच्च, विद्याधरर्द्धिराप्स्यते ॥ ४६॥ ध्यात्वेति साऽब्रवीद्रत्नागदं तवेदमर्पये । वर्तसे चेन्मदा देशात्ततो रत्नाङ्गदोऽवदत ॥५०॥ स्वामिन् ! यक्ष ! यब्रुषे त्वं, करिष्ये तदहं सदा । इत्युक्ते तेन सा प्राह, तर्हि शृणु वचो मम ॥ ५१॥ त्वं स्वस्थानं गतः स्वस्मिन् , विमाने द्रक्ष्यसि स्त्रियम् । सकङ्कणां ततस्त्वं तां, कुर्या भायों सदा प्रियाम् ॥ ५२॥ नापमान्या त्वया सेषा, वर्तितव्यं तदाज्ञया । इत्युक्त्वा शनकैः साथ, निययौ यक्षमध्यतः ॥ ५३ ॥
||३६१॥