SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेदः ॥३६०॥ जीवदयायां मन्त्रिदासीकथा। राजपत्नी च यक्षस्य, विलिप्तपूजितस्य सा। पुरतो महिषाजादीनिहन्तुमादिशनरान् ॥ २६ ॥ अथ सान्तःस्थिता दासी, दध्यौ मेऽभूद्यथा व्यथा । घातकाद्राक्षसातद्वत, स्यादेषां प्राणिनामपि ॥ २७ ॥ तत्किलाहमेव यक्षीभूता निवारयाम्यमृम् । इत्यूचे प्रोच्चैः सा राज्ञी, न वध्या मत्पुराङ्गिनः॥२८॥ अतः परं च चेत्कोऽपि, मदने प्राणिनः खलु । हनिष्यति हनिष्यामि, सकुटुम्ब तमाश्वहम् ॥ २६ ॥ यतो मयाद्य विज्ञातं, तत्त्वं जीवदयैव हि । दुग्धस्नानार्चनाद्यैश्च, प्रीतः कर्ताऽस्मि वः प्रियम् ॥ ३०॥ किल यक्षः स्वयं वक्ति, मत्वेति राजगेहिनी । भीता व्यसयद्वध्यान , यक्षं नत्वा च सा ययौ ॥ ३१॥ नित्यमभ्येत्य सा राज्ञी, दुग्धेन स्नपयत्यमुम् । तल्लोकः किलान्योऽपि, दासी सा त्वपिवत्पयः ।। ३२ ॥ सर्वदर्शनसङ्गीता, जीवरक्षा कृताऽमुना । यक्षेणेति मुदा लोकस्तदर्चातत्परोऽभवत् ॥ ३३ ॥ ___ इतश्च राजपुत्री सा, दैवज्ञवचनाकुला । मन्त्रिपुत्र्या ततः प्रोचे, बुद्धिं मे शृणु हे सखि ! ॥ ३४ ॥ सर्वभक्षाख्ययक्षोऽयं, कङ्कणं परिधाप्यते । तद्दासीत्वं तु दुःखाय, न स्याद्यद्देवता ह्यसौ ॥ ३५ ॥ इति मन्त्रिसुतावाचं, कामलेखाभिवन्द्य सा । तया सार्धं ययौ सायं, यक्षवेश्म सकङ्कणा ।। ३६ ॥ द्रागेष मण्डयता यक्षः, कङ्कणेनेति तद्वचः। दासी निशम्य विज्ञाय, राजमन्त्रिसुते उभे ॥ ३७॥ स्वहस्ते बन्धयिष्यामि, कङ्कणं सेति दास्यथ । अन्तःशुषिरयक्षाग्रहस्तं भक्त्वा प्रयोगतः ॥ ३८॥ यक्षदोमध्यगं स्वं तु, कराग्रं निरसारयत । बबन्ध तत्करे राजपुत्री च कङ्कणं स्वयम् ॥ ३४॥ ॥३६०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy