________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीया परिच्छेदः
॥३५॥
जीवदयायां मन्त्रिदासोकथा.
अहो ! असारता कीदृक् , संसारस्य दुरात्मनः १ । आत्मानो यत्र पच्यन्ते, मुहुदुःखहठाग्निना ॥ १३ ॥ अथवा-दुष्कर्मनिर्मितदुरक्षरदुर्ललाटवाचाटशासनशिलां शिरसा विभर्षि ।।
चेत्तत्प्रमाणवशतः प्रभवत्यनिष्टं, दोषः सकारितकृतः किमसारतायाः ॥१४॥ इति चिन्तापरां राजपुत्रीं विज्ञाय कारणात् । ऊचे मन्त्रिसुता मा स्म, शोचस्त्वं शृणु मद्वचः॥१५॥ दासीमेनामुपायेन, हनिष्ये दोषदानतः। पश्चात्त्वं कथमेतस्या, दास्या दासी भविष्यसि ॥१६॥ इत्यनुज्ञाप्य तां गेहे, ययौ दासीयुताऽचला । दास्याऽनयात्र वस्त्वेतदात्तं स्यादित्यचिन्तयत् ॥ १७ ॥ त्वयैतदात्तमित्येना, घटसर्पमकर्षयत् । दोषवत्त्वादहिर्दासी, ददंश सा ततोऽपतत् ॥ १८॥ सा तामत्याजयन्नद्या, नरात सोऽपि कृपापरः । निम्बमारकमध्यस्थां, प्रावाहयदिमा जले ॥ १६ ॥ पुण्यानिम्बाम्बुयोगेन, सा जाता निर्विषा क्रमात् । लग्ना तीरश्मशाने च, निःसृता निम्बभारकात् ॥२०॥ ततश्च राक्षसः कश्चिद्दधावेऽत्तुमिमा द्रुतम् । प्राणभीत्या ननाशाशु, साप्येलानगरं प्रति ॥ २१ ॥ किलाद्यापि हि रक्षस्तन्मामन्तीति भीतिमाक् । व्याघुव्य लापुरप्रान्तवनेगाधक्षमन्दिरम् ॥ २२ ॥ यक्षश्च सर्वभक्षाख्यः, शुषिरः पक्कमृन्मयः । ततस्तन्मृतिमुत्पाट्य, तदन्तः साविशद्भयात् ॥ २३ ॥ अरुणोदयवेलायामर्थका राजवल्लभा । दुग्धकुम्भानसौ स्नाने, यक्षमूनि व्यलोठयत् ।। २४ ॥ यक्षाङ्गच्छिद्रैः परितः, क्षीरमन्तः पतत्त सा। पायं पायमभूत्तप्ता, दासी मध्येऽस्ति या भयात् ॥ २५ ॥
॥३५६॥