________________
चन्द्रप्रभ
स्वामि
चरित्रम्
॥ ३५८ ॥
॥ जीवदयायां मन्त्रिदासीकथा ॥
धर्मेषु प्रथमो धर्मः, प्राणिरक्षा यतस्तया । नीरोगः सर्वदा लोकोऽनुरागाच्छ्रीयते श्रिया ॥ १ ॥ सत्यां दयायामन्ये स्युर्धर्मा वाञ्छितदायिनः । सति देसि द्योतते ॥ २ ॥ जीवरक्षावशाद्भव्यः प्राप्नोतीष्टपदं भुवि । निर्वाणसम्पदोमुत्र मन्त्रिदासीव तद्यथा ॥ ३ ॥
अस्त्येला नगरं तत्र, राजाऽस्ति रिपुमर्दनः । यद्दानपद्मे राज्यश्रीर्यशोहंसश्च खेलति ॥ ४ ॥ तस्य राज्ञः सुताऽस्त्येका, कामले खेति नामतः । तन्मन्त्रिमन्त्रसारस्य, पुत्री चास्त्यचलाभिधा ॥ ५ ॥ बाल्यादपि तयोः स्नेह, ऐकात्म्यप्रतिभूरभूत् । भुञ्जते च रमेते च शयाते च सधैँ ते ॥ ६ ॥ सारिद्यूतेन खेलन्त्योरन्यदा ह्यनयोस्ततः । आकाशादचलादास्युत्सङ्गे कङ्कणमापतत् ॥ ७ ॥ तदुत्थाय तदुत्सङ्गाद्गृहीतं कामलेखया । ततो जहास दैवज्ञः, पुरासीनस्तदन्तिके ॥ ८ ॥ राजपुत्र्या ततः पृष्टो, हासकारणमाह सः । कङ्कणं परिधाता या, तद्दासी त्वं भविष्यसि ॥ ६ ॥ परिधास्यति का त्वेनमिति राजसुतोदिते । एषा मन्त्रिसुतादासीत्याख्यत्तच्छ्रवणात् स तु ॥ १० ॥ तद्वाक्यप्रत्ययात् कामलेखाऽभू च्चिन्तयाऽऽकुला । क्रीडां मुमोच किञ्चोच्चैः, शुशोचात्मानमात्मना ॥ ११ ॥ धिग्मां या राजपुत्रीति, व्यपदेशमवाप्य हि । स्वदुष्कर्मपरीणामाद्दासीदासी तु भाविनी ॥ १२ ॥
द्वितीयः परिच्छेदः
जीवदयायां मन्त्रिदासी
कथा ।
॥ ३५८ ॥