SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेद ॥३६॥ अदत्तादाने दानप्रियकथा। ॥ अथ अदत्तादाने दानप्रियकथा॥ अदत्तेन परस्वेन, लोभादात्तेन देहिनाम् । लुट्यते धर्मसर्वस्वं, ग्राह्य नादत्तमत्र तत् ॥ १ ॥ अदत्तग्राहितादोषोऽधिरूढः सकृदेव हि । नैवापनीयते जन्तोः, शीतांशोरिव लाञ्छनम् ॥२॥ सत्क्लेशोपार्जनादात्तमाशास्थानं धनं नृणाम् । हरतो नरकादन्या, न गतिः परजन्मनि ॥३॥ यस्त्यजेत् परसर्वस्वं, सुखग्राह्यमपि त्रिधा । स भवेद्विश्वविश्वासस्थानं दानप्रियो यथा ॥४॥ ___ अस्ति नन्दापुरी तत्र, नन्दो नामास्ति भूपतिः। यत्खड्गास्बु जनाहादि, भिनत्ति स्तब्धभूभृतः ॥ ५ ॥ तत्रास्तेऽन्वयदारिद्रयकष्टभ्रष्टकुलक्रमः । दुःखोत्पन्नात्मभरणो, दुर्गतो नाम पूरुषः ॥ ६ ॥ तस्यास्ति तनयो दानप्रियो नाम शिशुः स च । अन्यदा रममाणोऽभूदाढ्यपुत्रैः सह क्वचित् ॥ ७॥ अथेकस्याढ्यपुत्रस्य, रममाणस्य हस्ततः । पपात मुद्रिकारत्नं, धूलौ केनाप्यलक्षितम् ॥८॥ गतः स रनत्वा गेहे स्वे, पश्चाद्दानप्रियेण तत् । दृष्ट्वा दध्यौ किलेतद्धि, रत्नं भाव्यमुकस्य तु ॥४॥ इत्यादाय कराग्रेण, परस्वमित्यसंस्पृशन् । आनीयापयत्तद्वालपितृभ्यामेष तत्स्वयम् ॥१०॥ आढ्यो दध्यावहो ! अस्य, कीदृग निःस्पृहता शिशोः १ । आददीत न वालोऽपि, कोऽन्यो लोभादिदं खलु ? ॥१२॥ जातो निःस्वकुले नित्यं, म्रियमाणो बुभुक्षया । इदं यदेष नागृहात , तत्स्वीकार्य: सुशीलतः ॥ १२ ॥ ॥३६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy