SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि द्वितीय: परिच्छेदः चरित्रम् ॥३५॥ अभावनायां वरुणकथा। न भवत्यमुना किश्चिदिति यः परैरहम् । उपहस्ये सदाप्येवं, ततोऽभूवं सुदु:खितः ॥ २५ ॥ अनेन मन्त्रिणा चाद्य, पृष्टा देवाः परे न यत । आख्यंस्तन्मम देवेन, है पुण्यावसरो ददे ॥ २६ ॥ पयश्छटाऽपि मेऽङ्गेषु, नालगत् प्राकदापि हि । केवलं धूलिविष्टाभिलिप्सत्वात्ताडयते वपुः ।। २७ ॥ अधुना त्वेष मन्त्री मे, स्वपकः पूजकोऽभवत् । तदस्मै कथयाम्येनं, राजस्वप्नं यथास्थितम् ॥ २८॥ इति सोऽवधिना ज्ञात्वाचख्यौ स्वप्नं तु मन्त्रिणे । मन्त्र्याख्यद्भभुजे गत्वा, हर्षाद्राजाप्यमन्यत ।। २8 ।। स्वर्णलक्षां ददौ तोषाद्राजा तस्मै सुमन्त्रिणे । सोऽप्यादाय वैवधिकैरागच्छनित्यचिन्तयत् ॥३०॥ मयाऽस्त्यद्धं हि यक्षस्य, मानितं तहदे यदि । तत्कुटुम्बव्ययानन्तमृणं कस्माद्ददाम्यहम् १ ॥ ३१ ॥ किं करिष्यति यक्षश्च १, स्वर्णेनाद्य फलं तु मे । यक्षः क्रोत्स्यति चेत्तत्कि, कर्ता कार्य न यत्पुनः ।। ३२॥ इति ध्यात्वा ततो मन्त्री, ययौ वेश्म निजं मुदा । स्वेच्छया स व्ययत्यर्थ, सांसारिकसुखेच्छया ॥ ३३ ॥ आगादीपोत्सवो भूयो, नृपोऽशेत तथैव सः । स्वप्नं ददर्श तत्रैष, विसस्मार तथैव च ॥ ३४ ॥ भूयः पप्रच्छ राजा तं, मन्त्रिणं प्रत्ययात्ततः । मन्याह कथयिष्यामि, सम्यग ज्ञात्वा यथातथम् ॥ ३५ ॥ प्रतिज्ञायेति मन्त्र्येष, गेहं गत्वा व्यचिन्तयत् । प्रष्टव्यः स कथं यक्षो ?, दत्तमद्धे पुरा न यत् ।। ३६॥ ततोऽन्तः किमपि ध्यात्वा, स दुग्धेअरसादिकम् । पुष्पादिपूजाप्रकर, लात्वा यक्षगृहं ययौ ॥३७॥ जलैः प्रक्षाल्य तन्मृत्ति, दुग्धेनानपयत्ततः । विलिप्य घुसणेनाथार्चयित्वा कुसुमैर्वरैः॥ ३८ ॥ ॥३५॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy