________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः |परिच्छेदः
॥३५१॥
|अभावनायां | वरुणकथा।
अगरुधूपमुद्ग्राह्य, प्राहेति कोमलं वचः । स्वामिन् ! यक्षेश ! सोढव्योऽपराधो मे सुदुस्सहः ॥ ३९ ॥ मया खानीय गेहे स्वे, मुक्तं स्वर्ण ततः किल । यावद्दास्यामि ते तावद्विभज्य भक्षितं सुतैः ॥ ४० ॥ अत्रार्थे न त्वया कोपः, कार्यः स्वाम्यसि येन मे । अपराधानहं कर्ता, त्वं सहिष्यसि सर्वथा ॥४१॥ नातःपरं च कर्ताऽस्मि, मानितं त्वन्यथा खलु । प्रसीद कथय स्वप्नं, यन्मां पृच्छति भूपतिः ॥ ४२ ॥ इति मन्त्रिगिरा प्रीतो, यक्षः स्वप्नमचीकथत् । सोऽपि राज्ञे ततो राजा, स्वर्णलक्षद्वयं ददौ ।। ४३ ॥ ततोऽमात्यस्तदादायागत्य चा पथे स्थितः । यक्षे वान्डम्बरः कार्यो, ध्यात्वेति गृहमाययौ ।। ४४ ।। पुनर्दीपोत्सवे राजा, तं स्वप्नं व्यस्मरत क्षणात् । तमेव मन्त्रिणं भूयः, पप्रच्छ स्वयमादरात् ॥ ४५ ॥ ऊरीकृत्य ततः सोऽपि, ययौ स्वगृहमाश्वथ । आकार्य सूत्रधारान् द्रागादिदेश ससम्भ्रमः॥४६॥ बहिःस्थितस्य यक्षस्य, योग्यं देवकुलं क्षणात् । निष्पादयत रम्यं च, परितो वप्रभूषणम् ।। ४७ ।। आदेशानन्तरमेव, यक्षस्योपरि तक्षभिः । प्रासादो विदधे चित्रः, प्रोच्चैर्मण्डपमण्डितः ॥४८॥ ततः पौरजनान् मन्त्री, समाहूयादिशत्त्विदम् । प्रातहण यक्षस्य, कर्तव्योद्यानिका ध्रुवम् । ४६ ॥ ऋद्धो लोकस्ततस्तत्र, जगामालङ्कृतः श्रिया । भुक्त्वा भोज्यानि चिक्रीड, नानाक्रीडामिरुन्मदः ।। ५० ॥ आगत्य मन्त्री स्वेनैव, दुग्धसर्पिर्घटेरमुम् । स्नपयित्वा तमानर्च, पुष्पैः सौरभमन्दिरैः॥५१॥ पुरतः कारयामास, सङ्गीतकमथाद्भुतम् । अश्रुतादृष्टं तच्छु त्वा, यक्षोऽन्तम मुदेऽधिकम् ॥ ५२ ॥