________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥३५२॥
अभावनायां वरुणकथा।
प्रेक्षणे क्रियमाणे च, मन्त्री यक्षाग्रमेत्य सः । ऊचे यक्षेश ! नास्त्येव, कृतघ्नों मे समः परः ॥ ५३॥ स्वादशस्य प्रभोश्चक्रे, लोभान्धेन मया हहा !!। वञ्चना तत्र किं कुर्वे, कुटुम्ब मे हि खादकम् ? ।। ५४ ॥ अथवा त्वाशि स्वामिन्यपि न स्यात् कुटुम्बकम् । स्वेच्छोपभोगभाक् तत्कान्यत्र तद्भविता सुखी ? ॥ ५५ ॥ किं बहक्तैभवान् स्वामी, दास्यत्यविनया अपि । वयं च भक्षयिष्यामः, पितृपुत्रक्रमो ह्यसौ ॥ ५६ ॥ इत्थं सुधारसास्वादपेशला मन्त्रिणो गिरम् । निशम्य यचः प्रत्यक्षीभूय स्वप्नार्थमादिशत् ॥ ५७ ॥ ततो मन्त्री नृपायाख्यच्चतुर्लक्षों नृपो ददौ । लोभं त्यक्त्वा ततो मन्त्री, यक्षाग्रे तन्न्यचिक्षिपन् ॥ ५८ ॥ यक्षमृचे च सर्व हि, गृहाण काश्चनं प्रभो! । नातः परं करिष्यामि, भवता सह वञ्चनाम् ।। ५६ ॥ ततो विहस्य यक्षः स, प्राह मन्त्रिनतः परम् । सम्भाव्यते शुभः कालश्चेतास्याणि चाङ्गिनाम् ।। ६० ॥ एतावन्ति दिनान्यासीत्कालो दुष्टस्ततो भुवि । कालानुसारतोऽभूवन् सन्तोऽप्यनृतभाषिणः ।। ६१ ।। किं मे कार्य सुवर्णेन १, गृहाणैतत्त्वमेव हि । इति प्रोक्तः स यक्षेण, तदादाय गृहं ययौ ॥६२॥ ऋद्धस्तेन सुवर्णेन, मत्तो राजप्रसादतः। मोक्षसौख्यपदास्तीर्थकरानप्यवमन्यते ॥ ६३॥ विना भावं करोत्येषोऽर्हतां पूजा प्रसिद्धये । ददाति कीत्तये दानं, न पुनर्भावतः क्वचित् ॥६४॥ एवं हि कुवंतस्तस्याभूयव्यव्यय एव हि । नाभूत्परभवोन्नत्य, पुण्यलेशोऽपि सर्वथा ।। ६५ ।। इत्यभावनया मन्त्री, वरुणाख्यः क्रमेण सः। मृत्वा जातो व्यन्तरेष्वल्पर्धिषु रमानसः॥ ६६ ॥
॥ इत्यभावनायां वरुणकथा ।
॥३५२॥