________________
चन्द्रप्रभस्वामि
चरित्रम्
॥३४६॥
११ ॥
ततोऽमात्यान्नृपः स्वप्नं, पप्रच्छ ब्रूत को मम । गोत्रदेव्या किलाssख्यायि, स्वप्नः कीदृक्फलश्च सः १ ॥ विज्ञायते कथं स्वामिन्!, स्वप्नोऽस्माभिस्त्वयेक्षितः । ज्ञानवेद्यो ह्यसौ बुद्धया, ज्ञायते नैव भूपते ! || १२ | ततश्च डिण्डिमं राजाऽवादयच्चेति सर्वतः । यः स्वप्नं कथयत्येनं, स्वर्णलक्षाऽस्य दीयते ॥ १३ ॥ ततश्च मन्त्रिणोऽन्येऽपि, चूडामण्यादिवेदिनः । शकुनप्रश्नहोराभिर्निरीचन्ते दिवानिशम् ॥ १४ ॥ न कोऽपि लभते स्वप्नं, ततश्च कोऽपि मन्ध्यथ । भक्ति नगरदेवानां ज्ञातुं स्वप्नं चकार सः ॥ १५ ॥ देवो न कोऽपि चाचख्यौ, स्वप्नवार्तामपि स्फुटम् । ततः स मन्त्री बाह्यस्थं, यक्षमेकं विलोक्य तु ॥ १६ ॥ दध्यौ यदस्य यक्षस्य, भग्न ं वेश्मापि सर्वतः । मूर्त्तिश्च काकविष्ठाभिर्लिप्ता ह्यापादमस्तकम् ॥ १७ ॥ सश्रीकं तु परं स्थानं, भाव्यत्र व्यन्तरस्ततः । स्वार्थायाराधयाम्येनं, चेत्पुनः कथयेन्मम ॥ इत्यसौ जलमानीयापनीय च मलादिकम् । स्नपयित्वा च कहारपत्रिकाभिरपूजयत् ॥ १६ ॥ विनीतश्चाग्रतो भूत्वा यक्षं प्रत्याह कोमलम् । मया नाथ ! पुरान्तःस्थाः सर्वे देवा विलोकिताः || २० || परं केनापि किमपि न स्यादिति मतिर्मम । एवमेव जगत्तैस्तु, भक्ष्यते पश्यतोहरैः ॥ २१ ॥ ततश्च त्वं मया ज्ञातः, शिष्टत्वादविकत्थनः । सप्रभावस्ततोऽहं त्वां प्रपन्नोऽस्मि प्रभु खलु ॥ २२ ॥ तत्स्वामिन् ! साधयार्थं मे, राजस्वप्नं समादिश । यद्राजा दास्यते दास्याम्यर्द्धं तस्य तवापि हि ॥ २३ ॥ यक्षो दध्यौ ममैतानि दिनान्यासन् परं न हि । चक्र केनापि भक्तिमें, मां वेत्यपि न कोऽपि हि । २४ ||
१८ ॥
द्वितीयः | परिच्छेदः
अभावनाय वरुणकथा ।
३४६॥