________________
इति स सर्वतः कुर्वन् , प्रतिबोधं शरीरिणाम् । विजहार भुवं भव्यपद्माकरदिवाकरः ॥ ५५ ॥
॥इति भावनायां असम्मतकथा ॥
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः |परिच्छेदा
॥३४॥
अभावनायां वरुणकथा।
॥ अथ अभावनायां वरुणकथा ॥ विना तु भावनां जन्तोर्ददतोऽथ तपस्यतः । देवं पूजयतः साधून , नमतोऽपि फलं नहि ॥१॥ निर्लावण्या यथा नारी, निस्तेजाश्च मणिः पुनः । निर्भावश्चित्रवद्धमों, वरुणस्येव निष्फलः ॥ २॥ गन्धर्वपुरमस्तीह, तत्रास्ति विजयो नृपः। यद्वाहृदण्डे चण्डेऽपि, सुखेन श्रीर्वसत्यहो।॥३॥ तस्य राज्ये क्रमस्त्वेष, राजा दीपोत्सवे निशि । उपोषितो गोत्रदेवीमत्तेरग्रे स्वपित्यथ ॥ ४ ॥ स्वप्ने सा कुलदेवी तु, ते वर्षगतायतिम् । शुभां वाप्यशुभां वापि, तथा राजा प्रवर्तते ॥ ५॥ एवं विजयराजोऽपि, प्रतिदीपोत्सवं निशि । शेते पश्यति च स्वप्ने, वत्सरावधिमायतिम् ॥ ६॥ अन्यदा स नृपः सुप्तो, गोत्रदेवी त्वचीकथत् । स्वप्ने शुभाशुभं भावि, जजागार नृपस्ततः ॥७॥ प्रातःकृत्यं नृपः कृत्वा, यावत् संसदमासदत् । विसस्मार नृपस्याथ, स स्वप्नस्तत्क्षणादपि ॥८॥ निमील्य चक्षुषी चित्तेकाग्र्यादपि नृपः स्मरन । न सस्मार तं स्वप्नं, निदध्यावाकुलस्ततः ॥ ६ ॥ संवत्सरेऽत्र यद्भावि, तद्देव्याऽऽख्यायि मेऽग्रतः। अधन्यस्य ममेदानी, विस्मृतं हाऽत्र का गतिः१ ॥१०॥
॥३४८॥