________________
।
चन्द्रप्रम
द्वितीयः | परिच्छेदः
स्वामि
चरित्रम्
॥३४७॥
| भावनायां असम्मतकथा।
दवीयसि स्थितो देशेऽसम्मतो मुनिमैक्षत । वह परिवेषान्तःस्थं, ध्याने लीनं तथैव हि ॥४१॥ तपःप्रभावं वीभ्यासौ, नास्तिकीऽपि चमत्कृतः । तस्मिन् साधौ दधौ श्रद्धा, तपसा को न रज्यते ॥ ४२ ॥ निर्वाणेऽनौ ततः शीघ्रमागत्यासम्मतः पुमान् । पपात पादयोः साधोभूतलन्यस्तमस्तकः॥४३॥ मुनेश्च पादयोद्धा, सुदृढां लोहशृङ्खलाम् । स्वेनैव च्छोटयन प्राप, चिन्तामेतादृशीं हृदि ॥४४॥ यथा ह्यस्य मुनेः कायो, नदीपूरे ममज न । न चाऽनेनाग्निना दग्धो, मनागपि तथा खलु ॥ ४५ ॥ मन्येऽन्यस्यापि विघ्नास्तु, दूरे स्युस्तपसैव हि । लोके यान्यत्र सौख्यानि, तपसा तान्यपि ध्रुवम् ॥ ४६॥ ईदृशं न लपश्चक्र, यैर्मन्ये तेऽत्र दु:खिनः । यस्तु चक्र तपस्तांस्तु, पश्यन्नस्मि सुतेजसः ।। ४७ ।। भवेऽस्मिन्न तपश्चक्र, परमास्ते प्रतापवान् । पूर्व चीणस्य तन्मन्ये, प्रभावं तपसो ह्यदः ।। ४८॥ ततश्चात्माऽस्ति यस्य स्यात् , स्वकृततपसः फलम् । भुङ्क्ते भवान्तरेष्वेत्य, ततः पुण्यं च मन्यते ॥ ४६॥ पुण्यात सम्भाव्यते स्वगों, यथा स्वगैस्तथात्मनः । शाश्वतं स्थानमाख्यायि, योऽसौ मोक्षोऽस्ति सोऽपि हि ॥५०॥ इति तत्त्वे मनो लीनं, तथा तस्य महात्मनः । यथा मोक्षागलाघातिकर्मवातो ह्यभज्यत ॥५१॥ ततो मोक्षप्रतीहारकेवलज्ञानमुज्ज्वलम् । प्रादुरासीत् क्षणादेवासम्मतस्यापि सम्मतम् ॥ १२ ॥ चराचरं जगत्तस्य, पश्यतः केवलात्स्फुटम् । शासनदेवताऽथैत्य, चारित्रलिङ्गमापयत् ॥ ५३॥ स तेन साधुना देवैरसुरैय॑न्तरनरैः। भावेन प्रणतश्चक्र, तत्त्वार्थधर्मदेशनाम् ॥ ५४॥
॥३४७॥