________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥३४६॥
भावनायां असम्मतकथा।
ओजायितमनाः सम्यग, पश्यन् शुद्धिभाक् त्रिधा । ययौ क्षेमपुरे तत्रोद्यानेऽस्थात प्रतिमाधरः ॥ २७ ॥ पुरे तस्मिन्नथैकोऽस्ति, धनदुर्ललितः पुमान् । असम्मताख्यो यस्याभूत , किश्चनापि न सम्मतम् ॥ २८ ॥ मनुते पितरं नैव, मातरं भ्रातरं न च । न गुरून् देवतां नैव, महानास्तिकवादभृत ॥ २६ ॥ न जीवो न च पुण्यं च, न स्वर्गा नरकाश्च न । किन्तु भूतयोगायोगाद्वस्त्वस्ति नास्ति च स्थितेः ॥ ३०॥ वाग्मित्वेन धनित्वेन, निराकुर्वनसौ जगत् । देवानुत्थापयन् साधूनवजाननगान्मदम् ॥३१॥
इतश्च बहिरुद्याने, मुनी तस्मिन्नवस्थिते । अकस्मादेव स महानद्यां पूरः समाययौ ॥ ३२ ॥ अगाधे पूरपयसि, तस्मिन् ममज्जुरधिपाः। क्रीडाशिखरिणश्चान्ये, न ममज्ज मुनिः पुनः ।। ३३ ।। लोको विसिस्मिये दृष्टा, साधुं जलोपरि स्थितम् । अहो ! तपःप्रभावोऽयं, साधुरूवो जलेऽस्ति यत् ॥ ३४ ॥ पूरे कालानिवृत्ते च, तथैवास्ते मुनिभुवि । तपःप्रभावादासन्नाः, सान्निध्यं व्यन्तरा व्यधुः ॥ ३५ ॥ स दृष्टप्रत्ययो लोकस्तं साधुं द्राग नमस्यति । जाते रोगे च तत्पादरजसा पटुता भवेत् ॥ ३६ ॥ असम्मतो नास्तिकत्वान्मुनावनुशयं दधन् । तपःप्रभावोऽप्यत्रास्तीत्यालोकनमतिं दधौ ॥ ३७ ।। शृङ्खलाभिमुनेः पादौ, बद्धा काष्ठतणेषु सः । रात्रावसम्मतस्तत्र, वह्निमुज्ज्वालयत् क्षणात् ॥ ३८॥ उज्ज्वालः सोऽज्वलद्वह्विरा नपि तरून दहन् । साधुं प्रदक्षिणीचक्रे, भक्त्यैव परितः स्फुरन् ।। ३६ ॥ अन्यदाद्रमना वा, ददाह दहनः क्षणात् । तपःप्रभावान्नाधाक्षीन्मुने रोमाऽपि सोऽनलः ।। ४० ॥
K
॥३४६॥