________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः परिच्छेदः
K
॥३४॥
भावनायां असम्मतकथा।
पतन्त्येवाहमादेया, सुरङ्गानिःसृता क्षणात् । एष्याम्यहं कुमारस्य, सौधे सङ्गाभिलाषुका ॥१३॥ इति सङ्के तमाख्याय, तन्मित्रं च विसृज्य सा | क्रीडित्वा क्षणमुद्याने, ययौ द्राक् सौधमात्मनः ॥ १४ ॥ कृत्रिमं कलहं कृत्वा, केनाप्यलक्षितान्यदा । सायं कूपे ददौ झम्पां, सुरङ्गापुरुषस्ततः ॥१५॥ पतन्त्येव गृहीता सा, नीता कुमारवेश्मनि । कथितं तैः कुमारस्य, पुरो राज्ञो निषेदुषः ॥ १६ ॥
इतश्च पतितां कूपे, तां ज्ञात्वा मन्त्रिराडथ । पुरुषैः शोधयामास, नादृश्यतावटे परम् ॥ १७ ॥ पुरे वार्ता बभूवैषा, ज्ञातं राज्ञा च तत्तथा । स्त्रीहत्यापातकीत्येवं, राज्ञा मन्त्री न्यगृह्यत ॥१८॥ अलुण्यत च सर्वस्वं, व्यडम्ब्यत कुटुम्बकम् । विलोक्यैवं कुमारोऽथ, चिन्तयामास चेतसि ॥ १६ ॥ धिग् धिग् निरपराधोऽयं, नृपेणाजानता स्फुटम् । व्यापादितो हहा !! मन्त्री, स्त्रीनिमित्ते मदागसि ॥ २० ॥ धिग्मां येन रतायैषा, स्त्री स्त्रीव्यसनिनार्थिता । धिगेनां च यया चक्रे, कूपपातादुपायता ॥ २१ ॥ नातः परं मया स्थेयं, गृहवासेऽत्र दुस्तरे । स्त्रीजाले पतितो मयों, मत्स्यवत् को न बध्यते १ ॥ २२ ॥ विचिन्त्येति कुमारोऽथ, तामनुक्त्वैव सन्त्यजन् । यौवराज्यं परित्यज्य, विरागानिर्ययौ पुरात् ॥ २३ ॥ एकाकी स व्रजन् क्वापि, वने साधु ददर्श च । तं नत्वाह कुमारोऽथ, वैराग्यामना मृदु ॥ २४ ॥ व्यसनातिभराक्रान्तं, मजन्तं मां भवाम्बुधौ । परमार्थोपदेशेन, साधो ! निस्तारयाधुना ॥ २५ ॥ इति तेनार्थितः साधुर्यतिधम दिदेश सः । अगृहाच कुमारोऽथ, प्रव्रज्या मुक्तितिकाम् ॥ २६ ॥
||३४५॥