Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 475
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४६२ ***************** गतः पुरे मठेऽतिष्ठन्मुण्डयामास मस्तकम् । कषायाणि च वासांसि पर्यधात् ख्यातिमाप्तवान् ।१२ । तत्र चाऽऽकार्यमाणोऽपि गृहे याति न कस्यचित् । पारणाऽह्वयाऽऽगतं भक्तं गृह्णात्येकस्य नान्यतः | १३ | भक्तं प्रतीष्टं कस्येति ज्ञातुं भेरी कृता जनैः । यस्याऽऽत्तं तत्कृते भेरीताडनेऽन्येऽवलन्त्यथ ॥१४ ॥ अथाऽन्यदा पुरे तत्र श्रीवीरः समवासरत् । विहर्तुं प्रस्थितान्साधूंश्चाऽवोचत्तिष्ठत क्षणम् ॥ १५ ॥ अनेषणेति तस्मिंश्च भुक्ते यातेति चाऽऽदिशत् । गौतमं चाऽऽदिशत्स्वामी इन्द्रनागमिदं वदेः । १६ । अनेकपिण्डिकं द्रष्टुं त्वामिच्छत्येकपिण्डिकः । सोऽथ रुष्टोऽवदद्यूयं बहुपिण्डभुजोऽपि किम् ॥१७ । । एकपिण्डा ? अहन्त्वेकपिण्डभोज्यप्यनेकभुक् ? । उपशान्तः क्षणाद्दध्यौ न ह्यसत्यं वदन्त्यमी । १८ । विमृशनथ सोऽज्ञासीद् यद्दिने पारणं मम । क्रियन्तेऽनेकशः पिण्डा दिने तस्मिन् गृहे गृहे । १९ । अकृतं चाकारितं च भुञ्जतेऽमीति साधवः । तद्वचः सत्यमेवैषामिति चिन्तयतस्तदा | २० | जातिस्मृतिरभूत्तस्य प्राप प्रत्येकबुद्धताम् । उक्त्वाध्ययनमेकं च केवली निर्वृत्तिं ययौ ॥ २१ ॥ अथ दाने कृतपुण्यकथा - शालिग्राम इति ग्रामस्तत्रैका स्थविराऽभवत् । तत्पुत्रो वत्सपालोऽभूत्सोऽन्यदा पायसोत्सवे ॥१॥ ******* आ. नि. सा. नि. 'कथम्' द्वारम् सामायिकलाभे कथाः बालतपस इन्द्रनागः । गाथा - ८४७ ४६२

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522