Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 485
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४७२ अथाऽऽकृष्याऽमुचत्खण्डं मुनिर्लग्नं च तत्र तत् । निर्गच्छन् शीघ्रमुत्थाय मुनिस्तेन विधृत्य सः ।२१। उक्तः कस्त्वं कुतो वाऽत्र प्राप्तोऽसि ब्रूहि सोऽब्रवीत् । स्वं स्वरूपं मुनिः सोऽथ प्रोचे ते श्रीरियं प्रभो! ।२२। आदितोऽपि प्रदत्तासौ तवैव वरकन्यका । तगृहाण मुने ! सर्वमात्मीयं मुच्यतां व्रतम् ।२३। विषयाः सुलभाः सोऽवग् व्रतमेतत्तु दुर्लभम् । तत्कथं सुलभार्थेऽहं व्रतं मुञ्चामि दुर्लभम् ।२४। कमला: समला: सर्वाः कामाः स्थामापहारिणः । तत्त्वमप्येषु मा रज्य परिव्रज्य सुखी भव ।२५। तदा तद्व्याख्ययाऽनेके प्रत्यबुध्यत जन्तवः । सप्तक्षेत्र्यां स सर्वस्वमुप्त्वा पश्चिममग्रिमम् ।२६। कलत्रपुत्रपुत्रीभिः सङ्गतः सङ्गवर्जितः । तस्यैव सनिधौ साधोः स तदैवाददे व्रतम् ।२७ । अथ व्यसने द्वौ भ्रातरौ - कुतोऽपि शकटेन द्वौ भ्रातरौ गच्छतः पथि । चक्रमण्डलिनी रथ्यास्थितां वीक्ष्याऽवदन्महान् ।१। शकटं टालयेतस्त्वं पापो नाऽटालयल्लघुः । ऊचे चास्यां विपन्नायां भ्रात: ! किं भावि सूतकम् ।२। श्रुत्वा सा संज्ञिनी तत्तचक्रच्छिन्ना मृता तदा । कुरुदेशे श्रीनिवेशे हस्तिनागपुरे पुरे ।३। १. टालय इतः त्वं इति सन्धिः । टालयेथास्त्वं - ल । 華擎華華華華華華藥華举業業業举華業 *樂樂藥華藥業業藥華藥 आ. नि. सा.नि. 'कथम्' द्वारम् * सामायिकलाभे कथाः संयोगवियोगे वणिजौ । गाथा-८४७ ४७२ *****

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522