Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 513
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघु-वृत्तिः ५०० ************* आसीद्धर्मरुचिः सूनुर्यथार्थाख्यः सुधांशुवत् । सुवासनः पुष्पमिव ऋजुः कमलनालवत् ॥२॥ वृद्धत्वादन्यदा राजा जिघृक्षुस्तापसव्रतम् । दातुकामस्तनूजस्य राज्यं संविग्नमानसः । ३ । सोऽथ मातरमप्राक्षीद्राज्यं तातः किमुज्झति । तमूचे जननी वत्स ! राज्यं संसारवर्धनम् ।४ । पुत्रोऽप्युवाच तर्ह्येवं कार्यं तेन ममाऽपि न । उभावपि ततो जातौ तापसौ तापसाश्रमे ॥५ । चतुर्दश्यामथाऽश्रावि घोषणा सर्वतोमुखी । अमावास्येत्यनाकुट्टिः प्रभाते भविता ततः | ६ | अद्यैव तत्प्रभातार्थं कार्य कन्दादिसङ्ग्रहः । अचिन्तयद् धर्मरुचिरनाकुट्टिर्वरं सदा ॥७॥ अमावास्यां च दृष्ट्वा स साधून् यातोऽन्तिकाध्वना । अप्राक्षीदद्य वः किन्नाऽनाकुट्टिर्याथ यद्वनम् ॥८॥ यावज्जीवमनाकुट्टिरस्माकं भद्र ! तेऽभ्यधुः । ईहापोहं प्रपन्नोऽथ जातिस्मरणमाप सः । ९ । ततः प्रत्येकबुद्धोऽभूद्वेषं शासनदेव्यदात् । सस्मारैकादशाङ्गानि सिद्धः कृत्वा चिरं व्रतम् ।१०। ।।८७६।। एतदेवाह - सोऊण अणाकुट्टि अणभीओ वज्जिऊण अणगं तु । अणवज्जयं उवगओ धम्मरुई नाम अणगारो ।।८७७ ।। श्रुत्वा साधुभ्योऽनाकुट्टि यावज्जीविकीं नाभीतोऽनभीतः - अत्यन्तभीतः प्रस्तावादाकुट्टे, वर्जयित्वा 'अणकं' अवद्यं पापकर्म ****** आ. नि. सा. नि. निरुक्तिद्वारम् अनवद्यरूप सामायिके धर्मरुचि कथा । गाथा-८७७ ५००

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522