Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आ. नि.
सा.नि. निरुक्तिद्वारम् गाथा-८७९
आवश्यक- अथाह पोट्टिलादेवो मा मन्त्रिनीदृशो भवः । भीतस्य शरणं भद्र ! प्रव्रज्या भयहारिणी ।२२। नियुक्तिः आलापकान् पठन्तं तं पोट्टिलारूपधारिणम् । दृष्ट्वा श्रुत्वा प्रबुद्धः सत्रूचे शमय भूभुजम् ।२३। श्रीतिलका- रुष्टे नृपेऽग्रहीन्मन्त्री व्रतं मा भूदिति श्रुतिः । शमितस्तेन राजाऽगान्मन्त्रिपार्श्वे समातृकः ।२४। चार्यलघु-वृत्तिः क्षमयित्वा प्रवेश्याऽथ कृतनि:क्र[ष्कमणोत्सवः । राजमात्रा च राज्ञा च परिवव्राज धीसखः ।२५। ५०३
मन्त्रिणाऽऽपद्गतेनाऽपि ज्ञात्वा सर्वां भवस्थितिम् । निर्वाह्यते स्म निःशेषं प्रत्याख्यानं मनीषितम् ।२६। ।।८७८ ।। अत्र गाथामाह - पञ्चक्खे दट्टणं जीवाजीवे य पुत्रपावं च । पञ्चक्खाया जोगा सावजा तेयलिसुएणं ।।८७९।।
प्रत्यक्षान् दृष्ट्वा जीवाजीवान् पुण्यपापं च पोट्टिलादेवदर्शनात् । जीवाभावे कः परलोकं गतः ? पुण्याभावे कथं मानुष्याद्देवत्वम् । अत * एतद्दर्शनात् जीवपुण्ययोः प्रत्यक्षतायां तद्विपक्षयोरपि सा सिद्धैव । शेषं स्पष्टम् । गतं निरुक्तिद्वारम् । समाप्ता उपोद्घातनियुक्तिः ।।८७९।।
इति श्रीतिलकाचार्यलघुवृत्तिसमन्विताया भाष्यकलितायाः श्रीभद्रबाहुस्वामिविरचितावश्यकनिर्युक्तेः सामायिकनियुक्तिमयः
। प्रथमो विभागः समाप्तः ।। १. प्रत्याख्यातं - प प प छ ख ।
५०३

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522