Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 512
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघु-वृत्तिः ४९९ KEE *********** उपेत्याहुर्नृपं सर्वे राजन् ! शास्त्राणि नः शृणु । राजोचे मानमेषां किं लक्षालक्षेति तेऽभ्यधुः ॥ २ । सोऽवदत्र क्षमः श्रोतुं राज्यं सीदति मे यतः । सङ्क्षिपद्भिस्ततः सर्वेरर्द्धार्द्धादिक्रमेण तैः । ३ । यावचतुर्भिरप्येकः श्लोकश्चक्रे स चैषकः । जीर्णे भोजनमात्रे यः कपिलः प्राणिनां दया । बृहस्पतिरविश्वासः पञ्चालस्त्रीषु मार्दवम् ॥४॥ तद्राजाप्यशृणोदेवमस्मिन् सामायिकेऽप्यहो । चतुर्दशानां पूर्वाणां संक्षिप्याऽर्थोऽस्ति पिण्डितः ॥५ । एतदेवाह सयसाहस्सा गंथा सहस्स पंच य दिवड्डमेगं च । ठविया एगसिलोए संखेवो एस नायव्वो ।।८७६ ।। उक्तार्था । तथा जिणे भोयणमत्तेउ कविलो पाणिणं दयां । विहस्सईरविस्सासो पंचालोत्थीसु मद्दव्वं |१| - अथानवद्ये धर्मरुचिकथा - धात्रीक्रोडे सदासक्तं वसन्तपुरमभवत् । जितशत्रुर्नृपस्तस्य धारिणी सहचारिणी । १ । • इयं गाथा ल ख मध्ये नास्ति । **************************** आ. नि. सा. नि. निरुक्तिद्वारम् अनवद्यरूप सामायिके धर्मरुचि कथा । गाथा ८७६ ४९९

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522