Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 507
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघु-वृत्तिः ४९४ ****** ************ अथ सम्यग्वादे कालिकाचार्यकथा - पुरी तुरिमिणी तत्र जितशत्रुर्नराधिपः । भद्राङ्गजो द्विजो दत्तः कालिकाचार्यजामिजः | १ | दत्तश्च मद्यपो धूर्तः प्रारेभे सेवितुं नृपम् । अभवद्वाहको राज्ये भेदयित्वाऽथ सन्निधिम् ॥२॥ राजानं पञ्जरे क्षिप्त्वा स्वयं राजा बभूव सः । अनेकानिष्टवान् यागान् कालिकार्याऽन्यदाऽऽगमत् ।३। प्रणन्तुं तमागाद्दत्तोऽपृच्छद्यागफलं ततः । गुरुराख्यदहो धर्मः कारुण्यादपरो न हि ॥४॥ पुनः पृष्टे गुरुः स्माह हिंसा दुर्गतिहेतवे । सेर्घ्यं मत्तोऽवदद्दत्तः स्पष्टदुष्टाशयो गुरुन् ।५। यदि वेत्सि तदाचार्य ! प्रश्नस्य वितरोत्तरम् । निःशङ्कोऽथ गुरुः स्माह यागानां नरकः फलम् ॥६॥ ततो दत्तः क्रुधाऽवादीदाचार्य ! प्रत्ययोऽत्र कः ? । गुरुरूचे प्रत्ययोऽसावितः सप्तमवासरे ॥७। पक्ष्यसे शुनकुम्भ्यां त्वं दत्तोऽथ सविशेषरुट् । ऊचे कः प्रत्ययोऽत्रापि गुरुरूचे निशम्यताम् ॥८॥ कुर्वतो राजपा ते वदने सप्तमे दिने । तुरङ्गमखुरोत्क्षिप्तः प्रवेक्ष्यत्यशुचेर्लवः । ९ । सोऽथाऽतिकुपितोऽवादीत्तवाचार्य ! कथं मृतिः । गुरुरूचे चिरं कृत्वा व्रतं यास्याम्यहं दिवि ॥ १० ॥ अथोत्तस्थौ गुरोः पार्श्वाद्दत्तश्चित्ते विचिन्तयन् । यन्ममाख्यदसावस्य तत्करिष्येऽष्टमेऽहनि । ११ । **************************** आ. नि. सा. नि. निरुक्तिद्वारम् सम्यग्वादे कालिकाचार्य कथा । गाथा-८७० ४९४

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522