Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
***
आवश्यकनियुक्तिः श्रीतिलका-* चार्यलघु-वृत्तिः *
४९३
***************
मुने ! गृहीताः केनामी यवास्त्वयाऽपरेण वा । कुर्वाण: करुणां क्रौञ्चे मुनिनोवाच किञ्चन ।५१। दत्तस्तेनाऽथ वर्त्रण शीर्षाऽऽवेष्टो मुनेस्तथा । यथाऽक्षिगोलो निर्गत्य पतितौ भुवि तत्क्षणात् ।५२। तथाप्यविचलचित्तः कृपारससरित्पतिः । अन्तकृत्केवली भूत्वा सिद्धिसौधे जगाम स: ।५३। स्फोट्यमानात्तत्र काष्ठात्खण्डमुच्छलितं तदा । लग्नं क्रौञ्चगले सोऽथ भीतस्तान् वान्तवान् यवान् ।५४। स्वर्णकृञ्चकितः सोऽथ दृष्ट्वा तान् हा हतोऽस्म्यहम् । मिलितश्च जनस्तत्र मेतार्य मृतमैक्षत ।५५ । राजा ज्ञात्वाऽऽदिशदयं सकुटुम्बोऽपि हन्यताम् । स तदा सकुटुम्बोऽपि प्रावाजीजीविताशया ५६। उक्तो राज्ञा व्रताऽऽदानाजीवन्मुक्तोऽस्यरेऽधम ! । व्रतं त्यक्षसि चेदाऽऽत्तं तत्कटाहे क्वथिष्यसे ।५७। एवं सामायिकं कार्य जीवेषु करुणापरैः । जीवितान्तोपसर्गेऽपि मेतार्येणेव साधुभिः ।५८। मेतार्यमुपबृंहयन्नाह - जो कुंचगावराहे पाणिदया कुंचगं तु नाइक्खे । जीवियमणपेहंतं मेयजरिसिं नमसामि ।।८६९।। निफेडियाणि दुन्नि वि सीसावेढेण जस्स अच्छीणि । न य संजमाउ चलिओ मेयजो मंदरगिरिव ।।८७०।।
*******************************
आ. नि.
सा.नि. निरुक्तिद्वारम् * समायिकरूपे * सामायिके * मेतार्यकथा ।
गाथा*८६९-८७०
४९३

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522