Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघु-वृत्तिः
४९१
मेतीकुक्षौ राजगृहे जुगुप्सातोऽवतीर्णवान् । तत्र चास्ते धनश्रेष्ठी निन्दुस्तच्छ्रेष्ठिनी पुनः ।२९। आसीन्मेतकुलं तञ्च कुटीरे तद्गृहान्तिके । तत्कर्मकरणान्मेत्याः श्रेष्ठिन्या सह मैत्र्यभूत् ।३०। द्वयोरपि सगर्भत्वात्समानप्रसवे सति । मेत्याऽर्पितः सुतः सख्यास्तत्सुतात्ता मृता रहः ।३१। मेतार्याख्यः स तत्राऽथ ववृधे ग्राहितः कलाः । देवेनाऽबोधि स स्वप्ने व्रतायाऽबोधि नैष तु ।३२। सोऽन्यदाऽष्टी वराः कन्या युगपत्परिणायित: । स विमानस्थवद्देवः शिबिकास्थोऽभ्रमत्पुरे ।३३। मेतं देवः प्रविश्याऽथ रुदन्नूचे ममापि चेत् । अजीविष्यत् सुता साऽप्यभविष्यत्परिणायिता ।३४। मेत्या सत्यमथाऽऽख्यातं रुष्टो धृत्वा तमानयत् । मत्पत्नी धूर्तयित्वाऽयं श्रेष्ठिन्याऽग्राहि बालकः ।३५ । लभ्यते किं स मत्सूनुनिजोऽग्राहि मयाऽधुना । श्रेष्ठी धनीति सर्वोऽपि लोको मौनेन तस्थिवान् ।३६ । अथ तं स्माह देवः स किं नाऽद्याऽपि व्रतार्थ्यसि । स ऊचे मामितो भ्रातर्नरकान्धोरिवाऽऽकृष ।३७ । स्थापयस्व यथास्थाने राजपुत्रीं च दापय । पश्चाद्वादशवर्षान्ते ग्रहीष्यामि व्रतं ध्रुवम् ॥३८॥ रत्नोत्सर्गी ततस्छागस्तस्य दत्तस्तदुज्झितैः । रत्नैः स्थालं स भृत्वाऽऽर्प्य सूनुर्जनकमूचिवान् ।३९।
आ.नि.
सा.नि. निरुक्तिद्वारम् समायिकरुपे
सामायिके मेतार्यकथा । गाथा-८६८
E*
४९१
*
*
*
१. 'मत्पत्नी धूर्तयित्वाऽयं श्रेष्ठिन्याऽग्राहि बालिका' प । २. भृत्वाऽथ ल, ।
*

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522