Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक
नियुक्तिः
श्रीतिलकाचार्यलघुवृत्तिः ४७८
अप्रमत्तः सप्त सप्त पुरःपश्चान्मुखानि च । फलकप्रान्तकीलेषु प्रवेशयति पादुके ।१७। [सन्दानितकम् । एवं कृतेऽभवल्लोकः सर्वः सर्वस्वदानधीः । राज्ञा दत्ते परं त्यागे प्राक् पश्चाद्ददते परे ।१८। नट्यां रक्तो नृपस्तानि भूयो भूयोऽप्यदापयत् । तन्मृत्युमीहते राजा स पुनर्धनमीहते ।१९। ज्ञातं तेनाप्यथ यथा नट्यां राजापि रागवान् । स च तत्र स्थितो दृष्ट्वा निकटे श्रेष्ठिनो गृहे ।२०। युवती: सादरं साधुप्रतिलाभनतत्पराः । साधुदृष्टिं पुनर्भक्तशुद्धौ तासां न वीक्षणे ।२१। दध्यौ निर्विषया एते धिग् मां विषयरागिणम् । तदेवं भावयन् प्राप ज्ञानं तत्रैव केवलम् ॥२२॥ राजदुश्चिन्तितध्यानात्तल्लेभे लजपुत्र्यपि । पट्टराज्यपि तत्तद्वत् भावयन्ती समासदत् ।२३। श्रुत्वाऽपरागं स्वं लोकाद्ध्यात्वा दुश्चिन्तितं च तत् । विरक्तो भावनासक्तः प्राप भूपोऽपि केवलम् ।२४ । चतुर्णा केवलोत्पत्तौ तत्रैयुर्व्यन्तरामराः । साधुवेषं ददुस्तेषां वंशं स्वर्णोत्पलं व्यधुः ।२५। आख्यद्धर्ममिलापुत्रः प्रत्यबुद्ध घनो जनः । सम्यक्त्वाभिग्रहादीनां कोऽपि किञ्चित्प्रपन्नवान् ।२६।। । अथवा एभिः कारणैः सामायिकलाभः स्यादित्याह -
準準準準準準準準準準準準準準準準準
आ. नि. सा. नि. 'कथम्'
द्वारम्
* सामायिकलाभे कथाः सत्कारे इलापुत्रः। गाथा-८४७
११. ऽपरागस्तं - प. ऽपरागः स्वं प, ऽपरागस्त्वं - ल, २. प्रतिबुद्धो-प, ल, प्रत्यतिबुद्धो प, ।. मुख (नपुं) प्रेक्षणके सन्धिः । * तानि - मुखानि इत्यर्थः । - तत् * - केवलम्, तद्वत् - ललपुत्रीवत् इत्यर्थः ।
**********
४७८
XXX

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522