Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 493
________________ ******** आवश्यक- सम्यक्त्वदेशविरत्योः प्रतिपत्तारः क्षेत्रपल्यस्याऽसङ्ख्यभागे यावन्तः प्रदेशास्तावन्त एवोत्कृष्टत एकस्मिन् समये स्युः ।* नियुक्तिः देशविरतिप्रतिपत्तृभ्यश्च सम्यक्त्वप्रतिपत्तारो असङ्खयेयगुणाः । 'सेढीअसंखभागो सुएत्ति' संवर्तितसमचतुरस्रसप्तरज्जूकृत-* * लोकैकप्रदेशात्मिका श्रेणिः, तस्या असङ्ख्यभागे यावन्तः प्रदेशास्तावन्तोऽक्षरात्मके सामान्यश्रुते एकदा प्रतिपत्तारः स्युः । 'सहस्सग्गसो * चार्यलघु-वृत्तिः * विरइ' सर्वविरतिं प्रति सहस्राग्रशः सहस्रादिसङ्ख्याः प्रतिपत्तारः । जघन्यतस्तु सर्वेषामप्येको द्वौ वा ।।८५०।। प्राक्प्रतिपन्नानाह - ४८० सम्मत्तदेसविरया पडिवन्ना संपयं असंखिज्जा । संखिजा य चरित्ते तीसुवि पडिया अणंतगुणा ।।८५१।। सुयपडिवन्ना संपइ पयरस्स असंखभागमित्ताओ । सेसा संसारत्था सुयपडिवडिया हु ते सव्वे ।।८५२।। साम्प्रतं वर्तमानसमये सम्यक्त्वं देशविरतिं च प्रतिपन्नास्तत्प्रतिपत्तृभ्यो जघन्यत उत्कृष्टतश्चासङ्खयेयगुणाः । उत्कृष्टाश्च जघन्येभ्यो * * विशेषाधिकाः । अत्रान्तरेऽग्रेतनगाथायाः पूर्वार्द्ध व्याख्येयम्, 'सुयपडिवन्ना संपइ पयरस्स असंखभागमित्ताओ' । श्रुतं * सामान्येनाक्षरात्मकं प्राक्प्रतिपन्नाः सम्प्रतिकाले प्रतरस्य समचतुरस्रसप्तरज्ज्वात्मकलोकसत्कस्य एकप्रादेशिकस्याऽसङ्खयेयभागे यावन्तः * * प्रदेशास्तावन्मात्राः । 'संखिज्जा य चरित्ते' सङ्ख्येयाः सङ्ख्यावन्तश्चारित्रे प्राक्प्रतिपन्नाः । 'तीसुवि पडिया अणंतगुणा', त्रिभ्योऽपि * * चारित्रदेशचारित्रसम्यक्त्वानां प्रतिपत्तृप्रतिपन्नेभ्यः सकाशात् चारित्रं प्राप्य पतिताः अनन्ताः । एतेभ्यो देशचारित्रपतिता असङ्ख्यगुणाः ।* आ. नि. सा.नि. 'कति' द्वारम् । ८५१-८५२ ४८०

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522