SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४७८ अप्रमत्तः सप्त सप्त पुरःपश्चान्मुखानि च । फलकप्रान्तकीलेषु प्रवेशयति पादुके ।१७। [सन्दानितकम् । एवं कृतेऽभवल्लोकः सर्वः सर्वस्वदानधीः । राज्ञा दत्ते परं त्यागे प्राक् पश्चाद्ददते परे ।१८। नट्यां रक्तो नृपस्तानि भूयो भूयोऽप्यदापयत् । तन्मृत्युमीहते राजा स पुनर्धनमीहते ।१९। ज्ञातं तेनाप्यथ यथा नट्यां राजापि रागवान् । स च तत्र स्थितो दृष्ट्वा निकटे श्रेष्ठिनो गृहे ।२०। युवती: सादरं साधुप्रतिलाभनतत्पराः । साधुदृष्टिं पुनर्भक्तशुद्धौ तासां न वीक्षणे ।२१। दध्यौ निर्विषया एते धिग् मां विषयरागिणम् । तदेवं भावयन् प्राप ज्ञानं तत्रैव केवलम् ॥२२॥ राजदुश्चिन्तितध्यानात्तल्लेभे लजपुत्र्यपि । पट्टराज्यपि तत्तद्वत् भावयन्ती समासदत् ।२३। श्रुत्वाऽपरागं स्वं लोकाद्ध्यात्वा दुश्चिन्तितं च तत् । विरक्तो भावनासक्तः प्राप भूपोऽपि केवलम् ।२४ । चतुर्णा केवलोत्पत्तौ तत्रैयुर्व्यन्तरामराः । साधुवेषं ददुस्तेषां वंशं स्वर्णोत्पलं व्यधुः ।२५। आख्यद्धर्ममिलापुत्रः प्रत्यबुद्ध घनो जनः । सम्यक्त्वाभिग्रहादीनां कोऽपि किञ्चित्प्रपन्नवान् ।२६।। । अथवा एभिः कारणैः सामायिकलाभः स्यादित्याह - 準準準準準準準準準準準準準準準準準 आ. नि. सा. नि. 'कथम्' द्वारम् * सामायिकलाभे कथाः सत्कारे इलापुत्रः। गाथा-८४७ ११. ऽपरागस्तं - प. ऽपरागः स्वं प, ऽपरागस्त्वं - ल, २. प्रतिबुद्धो-प, ल, प्रत्यतिबुद्धो प, ।. मुख (नपुं) प्रेक्षणके सन्धिः । * तानि - मुखानि इत्यर्थः । - तत् * - केवलम्, तद्वत् - ललपुत्रीवत् इत्यर्थः । ********** ४७८ XXX
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy