Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 486
________________ KKKKI आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४७३ आ. नि. सा.नि. कुले क्वापि बभूव स्त्री तां धनः श्रेष्ठ्युपायत । बृहच्छाकटिकस्यात्मा पूर्व तस्याः सुतोऽभवत् ।४। जीवितादप्यभीष्टं तं परां पुष्टिं निनाय सा । द्वितीयोऽप्युदरे तस्याः समुत्पन्नः स्वकर्मणा ।५। निविष्ट इव पाषाणो नाऽभीष्टो गर्भगोऽपि सः । प्राज्यैः पातनभेषजैः स कृतैरपि नाऽपतत् ।६। जातश्च वैरिवद् दृष्ट्वा दास्याश्छदितुमर्पितः । स दृष्ट्वाऽऽनीय पित्रा तु दास्याः कस्याश्चिदर्पितः ।७। अविज्ञातं जनन्या तं जनकोऽवर्धयत्सुतम् । महीयान् राजललितो गङ्गदत्तस्तु कन्यसः ।८। सुखादिकादिकं ज्यायान् यत्किञ्चिल्लभते ततः । विश्राणयति तस्यापि भागं भ्रातुः कनीयसः ।। तं विज्ञाय कुतोऽप्यम्बा दृष्ट्वा हन्ति यथातथा । अन्यदेन्द्रमहे जाते भुञ्जाने स्वजने जने ।१०। पित्राऽऽनीय निवेश्याऽधस्तल्पं यावत्स भोज्यते । सा तावत् प्रेक्ष्य धृत्वाऽथ केशेष्वाकर्षति स्म तम् ।११। चपेटायेस्ताडयित्वाऽक्षिपञ्चन्दनिकान्तरे । नीत्वाऽन्यत्र रुदन् सोऽथ स्नानं तातेन कारितः ।१२। तदा च तत्र भिक्षार्थमेकः साधुः समाययौ । श्रेष्ठी पप्रच्छ तं मातुः पुत्रोऽनिष्टः प्रभो ! भवेत् ।१३। मुनिरुवाच - यं दृष्ट्वा वर्धते कोपः स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण एष मे पूर्ववैरिकः ।१४ । यं दृष्ट्वा वर्धते स्नेहः क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण एष मे पूर्वबान्धवः ॥१५॥ 'कथम्' द्वारम् सामायिकलाभे कथाः व्यसने भ्रातरौ । गाथा-८४७ ४७३ ****** 準準準準準樂業藥

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522