________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
४६२
*****************
गतः पुरे मठेऽतिष्ठन्मुण्डयामास मस्तकम् । कषायाणि च वासांसि पर्यधात् ख्यातिमाप्तवान् ।१२ । तत्र चाऽऽकार्यमाणोऽपि गृहे याति न कस्यचित् । पारणाऽह्वयाऽऽगतं भक्तं गृह्णात्येकस्य नान्यतः | १३ | भक्तं प्रतीष्टं कस्येति ज्ञातुं भेरी कृता जनैः । यस्याऽऽत्तं तत्कृते भेरीताडनेऽन्येऽवलन्त्यथ ॥१४ ॥ अथाऽन्यदा पुरे तत्र श्रीवीरः समवासरत् । विहर्तुं प्रस्थितान्साधूंश्चाऽवोचत्तिष्ठत क्षणम् ॥ १५ ॥ अनेषणेति तस्मिंश्च भुक्ते यातेति चाऽऽदिशत् । गौतमं चाऽऽदिशत्स्वामी इन्द्रनागमिदं वदेः । १६ । अनेकपिण्डिकं द्रष्टुं त्वामिच्छत्येकपिण्डिकः । सोऽथ रुष्टोऽवदद्यूयं बहुपिण्डभुजोऽपि किम् ॥१७ । । एकपिण्डा ? अहन्त्वेकपिण्डभोज्यप्यनेकभुक् ? । उपशान्तः क्षणाद्दध्यौ न ह्यसत्यं वदन्त्यमी । १८ । विमृशनथ सोऽज्ञासीद् यद्दिने पारणं मम । क्रियन्तेऽनेकशः पिण्डा दिने तस्मिन् गृहे गृहे । १९ । अकृतं चाकारितं च भुञ्जतेऽमीति साधवः । तद्वचः सत्यमेवैषामिति चिन्तयतस्तदा | २० | जातिस्मृतिरभूत्तस्य प्राप प्रत्येकबुद्धताम् । उक्त्वाध्ययनमेकं च केवली निर्वृत्तिं ययौ ॥ २१ ॥ अथ दाने कृतपुण्यकथा -
शालिग्राम इति ग्रामस्तत्रैका स्थविराऽभवत् । तत्पुत्रो वत्सपालोऽभूत्सोऽन्यदा पायसोत्सवे ॥१॥
*******
आ. नि.
सा. नि. 'कथम्'
द्वारम्
सामायिकलाभे
कथाः बालतपस
इन्द्रनागः ।
गाथा - ८४७
४६२