________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४६१
*
*
*
*
*
%
अथ बालतपसि इन्द्रनागकथा - वसन्तपुरनामास्ति नगरं गरिमाद्भुतम् । धत्ते नीरनिधेः शोभामशेषश्रीविभूषितम् ।। तत्र श्रेष्ठी पुरश्रेष्ठः सर्वश्लाघ्यधनो धनः । पुत्रपौत्रादिशाखाभिर्विस्तृतो वटवृक्षवत् ।२। अन्यदाऽभ्यागमन्मारिय॑मघाटीव तद्गृहे । बन्दीकृत्याऽखिलं तस्य तयाऽनायि कुटुम्बकम् ।३। एक एवोद्धृतस्तत्रेन्द्रनाग इति दारकः । लोकैश्च तगृहद्वारं कण्टिकाभिः प्यधीयत ।४। शुनद्वारेण निर्गत्य स भिक्षार्थं पुरेऽभ्रमत् । दत्तेऽनं कृपया लोकस्तस्य तेन स वर्धते ।५। इतश्चैकः सार्थवाहः पुरं राजगृहं प्रति । घोषणां कारयित्वान्तर्महासार्थश्चचाल सः ।६। इन्द्रनागोऽपि तच्छ्रुत्वा तदा तेन सहाऽचलत् । जीर्णं तस्यैकदा नाऽनं न द्वितीयेऽहन्यतोऽभ्रमत् ।७। दृष्ट्वा सार्थाधिपो दध्यौ ध्रुवमद्याऽनशन्यसौ । सार्थपोऽथ द्वितीयेऽह्नि स्निग्धं तस्याऽशनं ददो ।८। सोथ यहमजीर्णत्वान्नाऽभुक्ताऽहन्यपरेप्यतः । षष्ठभोजीति लोकस्य भावस्तं प्रत्यभून्महान् ।९। एकत्रापि गृहे प्राज्यलाभानाऽगाद्गृहान्तरे । दध्यौ लोकस्ततोऽव्यक्तलिङ्गबसावेकपिण्डिकः ।१०। सोऽथैवं सार्थपेनोचे क्वचिदन्यगृहे त्वया । न मगृहं विना भिक्षा ग्राह्या यावत्पुरेऽगमः ।११।
%
आ. नि.
सा.नि. 'कथम्' द्वारम् सामायिकलाभे
कथाः बालतपसि इन्द्रनागः। गाथा-८४७
४६१
KKKKKKKK