SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४६० नदीमुत्तीर्य चौरोऽथ दधावे साऽथ तं जगौ । किमेवं यासि सोऽवादीन विश्वसिमि ते शुभे ! ।४४। त्वयैकोऽघात्यत यथा तथा त्वं जातु मामपि । इत्युक्त्वा तस्करः सोऽगात् विलक्ष्या राज्यपि स्थिता ।४५। शूलाप्रोतो हस्तिपकः श्राद्धाजलमयाचत । स ऊचे चेन्नमस्कारं ध्यायसि त्वं ददामि तत् ।४६। ध्यास्यामीति स तेनोक्ते श्राद्धोऽगाजलहेतवे । ध्यायन्नेव नमस्कारं मिण्ठो मृत्वा सुरोऽभवत् ।४७। श्राद्धश्चारक्षकैर्बद्धश्चौरार्थं जलमानयन् । देवोऽवधे: प्रेक्ष्य शिलां विकुळ तममोचयत् ।४८। शरस्तम्बे च दृष्ट्वा तां तदर्थं फेरुरूपभाक् । अर्वाग् मुक्त्वाऽऽमिषं वक्त्रात्तीरमत्स्याय धावितः ।४९। आमिषं जगृहे श्येनो मीनोऽन्तःसलिलं गतः । शृगालोऽथ विलक्षोऽस्थाद् ध्यायंस्तमथ साऽब्रवीत् ।५०। मांसखण्डं परित्यज्य मत्स्यं याचसि जम्बुक !। भ्रष्टो मीनाञ्च मांसाञ्च दीनं ध्यायसि फेरव ! ५१। सोऽवक् पत्रपुटच्छन्ने ! अयश:कारिके ! पितुः । भ्रष्टा पति चोपपतिं दीनं ध्यायसि बन्धकि ! ५२। इत्युक्ते व्रीडिता साऽस्थात्सोऽथाऽभूदिव्यरूपभाक् । तस्याः स्ववृत्तमावेद्य व्रतार्थित्वमजीजनत् ।५३। तेन सन्तm राजाऽथ तामग्राह्यत पुंश्चलीम् । अथ सत्कारपूर्वं सा नि:क्रष्किम्य स्वर्गभागभूत् ।५४। १. विलक्षा ल ल प ।• फेरवः - फेरुः तत्संबोधने । * बन्धकी - व्यभिचारिणी स्त्री, तत्संबोधने । **************** आ. नि. सा. नि. *'कथम्' द्वारम् सामायिकलाभे * कथाः अकामनिर्जरायां मिण्ठः। गाथा-८४७ ४६० XXXXXXX 準準準準準準準準準準準準
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy